Saturday, December 23, 2023

Taitriya Bharhmana Bhashyam - II Kandam

सभाष्ये तैत्तिरीयब्राह्मणे द्वितीयं काण्डम् | ( तत्र प्रथमप्रपाठके प्रथमोऽनुवाकः ) यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् || १ || आधानं वाजपेयश्च राजसूयस्तथाऽपरे । कर्मशेषाः केचिदत्र काण्डे प्रथम ईरिताः || २ || अग्निहोत्रं च होतार उपहोमाख्यमत्रकाः । सौत्रामणीसवाः सूक्तं वक्ष्यन्तेऽस्मिन्द्वितीयके ॥ ४ ॥ काण्डे प्रपाठका अष्टाविहाऽऽग्रे तु प्रपाठके । अग्निहोत्र उपोद्घातोऽनुवाके प्रथमे भवेत् ॥ ४ ॥ प्रतिपाद्यमर्थ बुद्धौ संगृह्य तदर्थमर्थान्तरवर्णनमुपोद्घातः । इह चाग्निहोत्रं प्रतिपाद्यं तद्बुद्धौ संगृह्य तत्प्रशंसा प्रथमं क्रियते । महाभागैः पितृभिरप्यस्मि - अग्निहोत्रे भागधेयं प्रार्थितम् । किमु वक्तव्यमग्निहोत्रस्य माहात्म्यमित्येवं प्रशंसा । तदर्थमिमामाख्यायिकामाह- अङ्गि॑र॒सो वै सत्रमा॑सत॒ । तेषां पृश्निर्वर्मधुर्गा- सीत् । सर्जीषेण जीवत् । ऽब्रुवन् । कस्मै नु सत्रमास्महे । येऽस्या ओष॑धीर्न जनयम इतिं । ते दिवोवृष्टिंमसृजन्त । यावन्तः स्तोका अवाद्यन्त । ताव॑तीरोष॑धयोऽजायन्त इति । अङ्गिराश्चतुर्थवेदमवर्तकाचार्य: । तस्य कुले समुत्पन्नाः सर्वेऽप्यङ्गिरसः । ते यदा सत्रमन्वतिष्ठस्तदा तेषां पृश्निः काचिच्छ्वेता गौर्धर्मधुगासीत् । प्रवर्ग्य- 19th १ क. निःश्वसितं । २ ग. 'होमाः सम' ।
३३८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [ २द्वितीयकाण्डे-हविर्धर्मः ।
तं दोग्धीति धर्मधुक् । सा चारण्ये तृणमलब्ध्वा निष्पीडितरसस्य सोमस्य यदृजीषं तद्भक्षणेनाजीवत् । तदा कृपालवोऽङ्गिरसः परस्परमिदमब्रु- वन् । ये वयमस्या गोर्भक्षणाय तृणविशेषानपि नोत्पादयामस्तादृशा अस- मर्था वयं कस्मै खलु प्रयोजनाय सत्रमनुतिष्ठामः । ऋद्धिकामैर्हि सत्रमनुष्ठे- यम् । गोग्रासमपि संपादयितुमशक्तानामस्माकं का नामान्या समृद्धिर्भविष्य- तीति । ततः कारीर्याद्यनुष्ठानेन तैर्दृष्टौ संपादितायां यावन्तो जलविन्दवस्ता- वत्य ओषधय उत्पन्नाः ।
अथाग्निहोत्रमशंसाप्रसङ्गेन पितृभ्यो लेपमार्जनं विधत्ते - 1 ता जाताः पितरो विषेण लिम्पन ( १ ) । तासां जग्ध्वा रुप्यन्त्यैव । ऽब्रुवन् । क इद- मित्थम॑क॒रति॑ । व॒यं शा॑ग॒धेय॑मि॒च्छमा॑ना॒ । इतिं पितरोऽब्रुवन् । किं व आगधेयमिति । अग्निहोत्र ए॒व नोऽप्यस्त्वित्य॑ब्रुवन् । तेभ्य॑ ए॒तद्वा॑ग॒धेयं प्राय॑च्छन् । यदु॒त्वा निमार्ष्टि । 1 ततो वै त ओष॑धीरस्वद्यन् इति । " या उत्पन्ना ओषधयस्ता एताः पितृभिर्विशेषेण लेपिताः । तासां मध्ये कियदपि तृणं भक्षयित्वा विषदोषेण पीडां प्रामुवती सत्रमागात् । तां दृष्ट्वा तेऽङ्गिरसः को नामेत्थं कृतवानिति विचारितवन्तः । तदानीं भागार्थिनो वय- मिति पितृभिरुक्ते सति तदिच्छानुसारेणाप्यग्निहोत्र एव तेषां भागं दत्तवन्तः । तेन लेपमार्जनेन भागेन तुष्टाः पितरो विषमपनीय ता ओषधीः स्वादूकृत- वन्तः । यदेतद्धोमानन्तरभावि लेपमार्जनं तत्सूत्रकारेण स्पष्टमुक्तम् - "प्राचीनावीति स्वधा पितृभ्यः पितृञ्जिन्वेति दक्षिणेन वेदिं भूम्यां लें निमृज्य" इति । तदेतद्विषापनयनवेदनं प्रशंसति य ए॒वं वेद॑ ( २ ) । स्वद॑न्तेऽस्मा॒ ओष॑धयः, इति ।
" · प्रपा ० १ अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीय ब्राह्मणम् । अथैतद्धेनुप्रसङ्गाद्बुद्धिस्थं वत्सविषयं कंचिद्धर्मं सूचयति — ते व॒त्समुपार्वासृजन् । इदं नो हव्यं प्रदप- येतिं । सोऽब्रवीद्दरं वृणै । दर्श मा रात्रींजतं न दोहन् । आसंगवं मात्रा सह चैराणीति । तस्मा॑द्दत्सं जातं दश रात्रीर्न दुहन्ति । आसंगवं मात्रा सह चरति । वारे वृत‍ ह्य॑स्य । तस्मा॑द्दत्सः ससृष्टधयः रुद्रो घातुकः । अति हि संधां धर्यति ( ३ ), इति । अलिम्पन्वेद घातुक एकं च ॥ 1
इति कृष्णयजुर्वेदीयतैत्तिरीय ब्राह्मणे द्वितीयकाण्डे प्रथमप्र- पाठके प्रथमोऽनुवाकः ॥ १ ॥ ३३९ हे वत्स नोऽस्मदर्थं स्तनपानपूर्वकं गां दोहयित्वा प्रवयर्थमिदं हव्यं प्रदाप येत्येवं वदन्तस्तेऽङ्गिरसो वत्सं पाशात्प्रमुच्य गोसमीपे प्रेरितवन्तः । स च वत्सो वरं वृतवान् । जातं मां दृष्ट्वा दशरात्रीर्भवन्तो गां न दुहन्तु प्रतिदिनं दोहादूर्ध्वं संगवकालपर्यन्तं मात्रा सह संचराणीति । यस्मादयं वत्सेन वरो वृतस्तस्माच्छु- तिस्मृत्यभिज्ञाः शिष्टा दशसु रात्रीपु गां न दुहन्ति । वत्सं संगवपर्यन्तं मात्रा सह मुञ्चन्ति । यस्मात्संगवपर्यन्तमेव वत्सेन वरो वृतस्तस्मात्संगवादृर्ध्वमग्निहोत्र्या धेन्वा सह संसृष्टः स्तनं पिवति यो वत्सस्तं वत्सं रुद्रः क्रूरोऽग्निर्हन्ति । अयं हि वत्सः संघां संगवपर्यन्तमित्येतादृशीं स्वकीयभाषामतिलङ्घ्य स्तनं पिवति तस्माद्रेण तस्य हननं युक्तम् । न ह्युत्तरकाले स्तने पीते सति रात्रावनि- होत्रार्थं हविः संभवति । अत्रैतद्धर्मत्रयमवगम्यते, दशसु रात्रिपु क्षीरं न ग्राह्यं प्रतिदिनमासंगवं मात्रा सह वत्सो मोचनीयः पचान्मातुः सकाशाद- पाकर्तव्य इति || इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीय- ब्राह्मणे द्वितीयकाण्डे प्रथमप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [२ द्वितीयकाण्डे-अथ प्रथमे द्वितीयोऽनुवाकः ।
प्रथमेऽनुवाकेऽग्निहोत्रस्योपोद्घात उक्तः । द्वितीयेऽग्निहोत्रं निरूप्यते । तत्राऽऽदौ तावत्स्वाहाकारमन्त्रस्योत्पत्ति वक्कुमाख्यायिकामाह -
प्र॒जाप॑तिरग्निम॑स्सृजत । तं प्रजा अन्व॑सृज्यन्त । तम॑भाग उपा॑स्त । सोऽस्य प्रजाभिरर्पाक्रामत् । तम॑व॒रुरुत्समा॒नोऽन्चैव । तम॑वरुधन्नाश॑क्रोव् ।स तपोऽतप्यत । सोऽग्निरुपरमंतातापि वै स्य प्र॒जाप॑ति॒रिति॑ । स र॒रादुद॑मृष्ट ( १ ) । तह॒तम॑भवव । तस्मा॒द्यस्य॑ दक्षिणतः केश उन्मृ॑ष्टाः । तां ज्यैष्टलक्ष्मी प्रजापत्येत्या॑हुः । यद्र- रामा॑दु॒मृ॑ष्ट । तस्मा॑द्रराटे केशा॒ न स॑न्ति । तद॒मौप्रागृह्णात् । तदूव्र्व्यचिकित्सव | जुहवानी ३- । माहौषा३मिति । तद्दिचिकित्साये जन्म, इति ।
यदा प्रजापतिना सृष्टमग्निमनु प्रजा अन्या असृज्यन्त तदानीं सोऽग्निर्भा - गरहित एव तं प्रजापति कंचित्कालमुपास्य खिन्नः सन्प्रजाभिः सह तस्मात्म- जापतेरपाक्रामत् । तमग्निमवरोद्धुमिच्छन्प्रजापतिः पृष्ठतो गत्वा पलायमानं तमवरोद्धुं नाशक्नोत् । अशक्तः स प्रजापतिः श्रमेण संतापं प्राप्तः । ततोऽ- निस्तं दृष्ट्वा स प्रजापतिस्तप्त इत्येवं वदन्पलायनादुपरतः । स च प्रजापतिः श्रमजन्यं स्वेदजलं स्वकीयललादादुन्मृष्टवान् । तच्च जलं घृतरूपेण प्रादुरभूत् । यस्मात्प्रजापतिः स्वकीयललाटस्य दक्षिणभागे स्थितं स्वेदजलममङ्गलं मन्य- मान उन्ममार्ज तस्माल्लोकेऽपि यस्य पुरुषस्य दक्षिणभागे केशा उन्मृष्टा इवोर्ध्वाः पृष्ठतोऽवनता उत्पद्यन्ते तस्य पुरुषस्य तां केशोत्पत्तिं प्रजापतिसंब- न्धिनी ज्येष्ठलक्ष्मीत्येवमभिज्ञा आहुः । लक्ष्म्याः पूर्वमुत्पन्ना ज्येष्ठलक्ष्मीर्या दारिद्र्यस्वामिनीं देवतामुद्दिश्य ज्येष्ठाव्रतमाचरन्ति । तद्रूपत्वादेव तथाविधं
६०२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् – [२ द्वितीयकाण्डे गोर्दुग्धेन परिषिच्य " इति । श्यामाकसत्तूंस्त्रेधा विभज्य तृतीयांशं सुराया- मुपरि विकीर्य तदुपरि दुग्धपरिषेचनार्थोऽयं मन्त्रः । तत्पाठस्तु -
 
परा॒तो षि॑ञ्चता सु॒तम् । सोमो॒ य उ॑त्त॒- म‍ हविः (१) ।
 दधन्वा यो नर्यो अप्स्व- न्तरा । 
सुषाव॒ सोम॒मद्भि॑भिः, इति ।

यः सोमलतात्मकस्तदेवेदमुत्तमं हविस्तदत्र सुतमभिषुतमितोऽस्मात्क्षीरा- त्परितः सिक्तमभूत् । यः सोमो नर्यो नराणां यजमानानां हितः सन्नप्स्व- न्तरा द्रवद्रव्येषु मध्य आ समन्तादधन्वा स्वादुत्वं धारयति तं सोममद्रिभि- रुपांशुसवनप्रभृतिभिः पाषाणैः सुषाव यजमानोऽभिषुतवान् ।
-- यदुक्तं सूत्रकारेण - " आज्यमुत्पूय पय उत्पुनाति प्राङ्सोमो अतिद्रुत इति सोमवामिनः, प्रत्यङ्सोमो अतिद्रुत इति सोमातिपवितस्य " इति । तत्र सोमवामिनो मन्त्रमाह -

पुनातु॑ ते परिस्रुत॑म् । सोम॒ सूर्य॑स्य दुहिता । वारे॑ण॒ शश्व॑ता॒ तना॑ ।
 वा॒युः प्रतः पवित्रेण । प्राइसोमो अति- द्रुतः । इन्द्र॑स्य युज्यः सखा, इति ।

हे इन्द्र ते त्वदर्थं सूर्यस्य दुहिता पयः पावयन्ती सूर्यस्य संबन्धिनी दुहि- तृस्थानीया दीप्तिः स्रुतं द्रवीभूतं सोमं सोमत्वेन भावितं पयोद्रव्यं वारेण वालजन्येन पवित्रेण पुनातु शोधयतु । कीदृशेन वारेण शश्वता शाश्वतेन दृढेन तना विस्तीर्णेन तादृशेनानेन पवित्रेण पूतः सोमः पयोरूपो वायुव- च्छीघ्रगामी भूत्वा प्रादूर्ध्व निर्गतः । कीदृशः सोम इन्द्रस्य युज्यो योग्यः सखा तादृशोऽयं सोमः शुद्धो भवत्वित्यर्थः । यः पूर्व सोमयागं कृत्वा वान्ति कृतवांस्तस्येदानीं सौत्रामण्यां पयः शोधनार्थोऽयं मन्त्रः । यस्य तु पुरा सोमो जीर्णः सोऽयं सोमातिपवितो यद्वा यस्य सोमो ऽ- धोद्वारेण निर्गतः सोऽयं सोमातिपवितस्तस्य पयःशोधनार्थं मन्त्रमाह- वा॒युः पूतः प॒वित्रे॑ण । प्रत्यङ्सोमो अति-

। इन्द्र॑स्य युज्यः सखा, इति ।

अत्र " पुनातु ते परिस्रुतम्” इति पूर्व भागोऽनुषज्यते । प्रत्यङ्ङतिब्रुतोऽधो निर्गतः । अन्यत्पूर्ववद्व्याख्येयम् ।
कल्पः -
 " ब्रह्म क्षत्रं पवत इति सुरां प्रतिप्रस्थाता" इति । पुनातीत्यनुव- र्तते । पाठस्तु -

ब्रह्म॑ क्षत्रं प॑वते॒ तेज॑ इन्द्रि॒यम् । सुरया सोमः ।
सुत आसुतो मय । शुक्रेण देव देवताः
पिष्टा॒ग्धि । रसेनान्नं यज॑मानाय धेहि, इति ।

ब्राह्मणजातिः क्षत्रियजातिश्च तेजःकारणमिन्द्रियवृद्धिकारणं वेदं द्रव्यं पवते पुनाति । अनया सुरया सह सोमः सुत उत्पादितः । मदाय देवानां मदार्थमासुतः सर्वतोऽभिषुत । हे सोमदेव तव शुक्रेण निर्मलेन रसेन देवता: पिपृधि संपृक्ताः कुरु । यजमानाय चान्नं संपादय ।
66
|
कल्पः --- “ अध्वर्युः पयोग्रहान्गृह्णाति कुविदङ्गेति सर्वेषामेका पुरोरुगेका पुरोनुवाक्या, एकः प्रेषः, एका याज्या, उपयामगृहीतोऽस्यश्विभ्यां त्वा जुष्टं गृह्णामीति गृहीत्वा यवसक्तुभिः श्रीत्वा पवित्रेण परिमृज्यैष ते योनिस्तेजसे खेति सादयित्वोपयामगृहीतोऽसि सरस्वत्यै त्वा जुष्टं गृह्णामीति गृहीत्वा गोधूमसकुभिः श्रीत्वा पवित्रेण परिमृज्यैष ते योनिर्वार्याय त्वेति सादयि- त्वोपयामगृहीतोऽसीन्द्राय त्वा सुत्राम् जुष्टं गृह्णामीति गृहीत्वोपवाकसक्तुभिः श्रीत्वा पवित्रेण परिमृज्यैष ते योनिर्बलाय त्वेति सादयित्वा" इति । तत्र पुरोरुचमाह-

कु॒विद॒ङ्ग यव॑मन्त॒ यव॑ चित् । यथा॒ दान्त्यं-
नुपूर्व वियूर्य । इहेहैंषां कृणुत भोज॑नानि ।
ये बर्हिषो नमोवृक्तिं न जग्मुः इति ।

अङ्गशब्दः प्रियसंबोधनवाचकः । हे प्रिया अश्विसरस्वतिसुत्रामेन्द्रा ये यज्वानो बर्हिषो यागस्य नमोवृति नमस्कारविनाशनं न जग्मुर्न प्रापुः । किंत्वत्यन्त श्रद्धालवोऽनुतिष्ठन्ति तेषामेषां यजतां हविर्विषयाणि भोजनानी- हे कृणुत । ग्रहणपात्राणामनेकत्वाद्वीप्सा । तत्रोपमानमुच्यते— कुविच्छन्दो



Taitriya Bharhmana Bhashyam - II Kandam

सभाष्ये तैत्तिरीयब्राह्मणे द्वितीयं काण्डम् | ( तत्र प्रथमप्रपाठके प्रथमोऽनुवाकः ) यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं ...