२
ब्रह्म संधत्तं तन्मे जिन्वतम् । क्षत्र संधत्तं तन्मे
जिन्वतम् । इष संधत्तं तां में जिन्वतम् । ऊर्ज
संधत्तं तां में जिन्वतम् । रयि संधत्तं तां मै
जिन्वतम् । पुष्टि संधत्तं तां में जिन्वतम् । प्रजा संधत्तं
तां मैं जिन्वतम् । पशून्संधत्तं तान्मै जिन्वतम् ।
ब्रह्म संधत्तमित्यादिना । ब्रह्मशब्दो जगत्कारणे परमात्मनि मुख्यतया येदे प्रयुज्यते ।
तथा चैतरेयिणः स्वकीयोपनिपदि समामनन्ति–'प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म' इति ।
तैत्तिरीयाश्च–'सत्यं ज्ञानमनन्तं ब्रह्म' इति ।
वाजसनेयिनश्च–'विज्ञानमानन्दं ब्रह्म' इति । एवं सति ब्रह्मशब्दस्य तत्प्रतिपादकवर्णमात्रपरत्वेऽपि परब्रह्मणः सहसा बुद्धिस्थत्वादर्थान्मङ्गलाचरणं संपद्यते ।
तस्य ब्रह्मणः प्रतिपादकत्वेन वेदोऽपि ब्रह्मशब्दस्यार्थः । ततो ग्रन्थादों वेदपुरुषोऽप्यनुस्मृतो भवति । तादृशंवेदाध्ययनाध्यापनयोर्मुख्याधिकारसंपादिका ब्राह्मणजातिरपि ब्रह्मशब्दस्यार्थः। सोऽयमत्र मन्त्रे विवक्षितः ।
उत्तरवाक्यगतक्षत्रशब्दसाहचर्यात् । एवं सत्यत्र प्रतिपाद्यत्वेनाविवक्षितोऽपि परमात्मा सहसा प्रतीयमानो विघ्नपरिहारादिरूपं माङ्गल्यं संपादयति । यथा ब्राह्मणभोजनार्थमानीयमानस्य दधिकुम्भस्य दर्शनेन ग्रामान्तरे जिगमिपणां माङ्गल्यं तद्वत् । तस्मादाद्यानुवाके 'ब्रह्म संधत्तम्' इत्यादि मन्त्राणामाम्नानं युक्ततरम् ।
मन्त्रविनियोगं चाऽऽपस्तम्बो दर्शयति--"अपरेणोत्तरवेदि ग्रहावरत्नी वा संधत्तः-ब्रह्मसंधत्तं तन्मे जिन्वतं क्षत्र संधत्तं तन्मे जिन्वतमिप संधत्तं तां मे जिन्वतमूर्ज संधत्तं तां मे जिन्वतं रयि संधत्तं तां मे जिन्वतं पुष्टिरसंधत्तं तां मे जिन्वतं प्रजा संधत्तं तां मे जिन्वतं पशन्संधत्तं तान्मे जिन्वतम्" इति ।
अथाध्वर्युः शुक्रपात्रं प्रतिप्रस्थाता मन्धिपात्रं चाऽऽदायोत्तरवेदेः पश्चाद्भागेऽवस्थाय स्वहस्तस्थिते पात्रे परस्परसंसृष्टे कुरुतः ।
यद्वा स्वकीयावरत्नी परस्परसंसृष्टे फुरुतः । हे ग्रहौ युवां ब्रह्म यजमानसंवन्धिनी ब्राह्मणजातिं संधत्तं स्वोचितधर्मराहित्यं यथा न भवति तथा संपादयतम् । किंच मे तद्ब्रह्म मदीयां ब्राह्मणजाति जिन्वतं प्रीणयतम् । एवमग्रेऽपि सर्वत्र
१ क. ख. शस्य ।। २ ग. 'तिब्रह्म । ३ ग, आद्याध्वर्युः ।

No comments:
Post a Comment