Sunday, May 30, 2021

कृष्णयजुर्वेदीयं तैत्तिरीयब्राह्मणम्। श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । 08/09

 अथ द्वितीयोऽनुवाकः ।



प्रथमानुवाके सोमयागशेपभूताः शुक्रामन्थिग्रहप्रचारमन्त्रा उक्ताः

अथाऽऽधानप्रकरणमारभ्यते । तत्रास्मिन्ननुवाके कालविशेषं विधत्ते-


कृत्तिकास्वग्निमादधीत । एतहा अग्नेर्न-क्षत्रम्। यत्कृत्तिकाः। 

स्वामिवैनं देव-तायामाधाय । ब्रह्मवर्चसी भवति , इति ।


अग्निचयनकाण्डेऽम्बादुला नितत्निरित्याद्याः कृत्तिकास्ता यस्मिन्दिने चन्द्रेण

संयुज्यन्ते तस्मिन्दिने तासु कृत्तिकासु चन्द्रयोगं प्राप्तास्वग्न्याधानं कुर्यात् ।

यदेतत्कृत्तिकासंपातरूपं तदेतदग्निसंवन्धि नक्षत्रम् । अत एवान्यत्राऽऽन्नातम्-

“कृत्तिका नक्षत्रमग्निर्देवता" इति । अत आधेयस्याग्नेः कृत्तिकास्वाधाने सति

स्वरूपभूतायामेव देवतायामाधानं कृतं भवति । अग्नेाह्मणाभिमानित्वात्तत्प्र-

सादेनाधीतश्रुताध्ययनरूपब्रह्मवर्चससंपन्नो भवति ।

प्रकारान्तरेण प्रशंसति-

मुखं वा एतनक्षत्राणाम् । यत्कृत्तिकाः । यःकृत्तिकास्वग्निमाधत्ते । मुख्य एव भवति , इति ।

कृत्तिका इति यत्तदेत नक्षत्राणां मध्ये मुखं प्रथमं नक्षत्रम् । अत एव

नक्षत्रप्रतिपादकेऽप्यनुवाक आदौ पठ्यते “कृत्तिका नक्षत्रमग्निर्देवता" इत्ये-

कत्र । “अग्नेः कृत्तिकाः शुक्रं परस्तात्" इत्यन्यत्र । “अग्निर्नः पातु कृत्तिकाः।

नक्षत्रं देवमिन्द्रियम्' इत्यन्यत्र । तदेतत्सर्वे मन्त्रानुवाकेविष्टिविधायकेऽप्य-

नुवाक एतदीयैवेष्टिरादावाम्नाता “अग्निर्वा अकामयत । अन्नादो देवाना

स्यामिति । 



स एतमग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरवपत्' इति ।
अतो मुखभूतासु कृत्तिकास्वादधानः पुमान्सर्वेषु स्वयं मुख्यो भवति ।
अस्मिन्पक्षे गुणमुक्त्वा दोपमपि कंचिदर्शयति-

अथो खलु (१) अग्निनक्षत्रमित्यपचायन्ति । 
गृहान्ह दाहुको भवति।

पूर्वोक्तगुणवैलक्षण्यद्योतनायाथोशब्दः । अभिज्ञाः खल्वग्निदेवताकमिदं
नक्षत्रमित्येवं निन्दन्ति । तस्मिन्नक्षत्र आदधानस्य यजमानस्य गृहान्सोऽ.
ग्निर्दाहुको दहनशीलो भवति ।

अथ निर्दोष नक्षत्रं विधत्ते-

प्रजापती रोहिण्यामग्निमसृजत । तं देवा रोहि-
ण्यामादधत । ततो वै ते सर्वात्रोहानरोहन् ।
तद्रौहिण्यै रोहिणित्वम् । यो रोहिण्यामग्निमां-
धत्ते । ऋनोत्येव । सर्वाब्रोहाब्रोहति |

रुह्यन्ते प्राप्यन्त इति रोहाः कामास्ते च यस्यां रुह्यन्ते सा रोहिणी।
ऋनोत्येव समृद्धो भवत्येव । समृद्धिरेव सर्वानित्यनेन विशदीकृता ।
नक्षत्रान्तरं विधत्ते-
देवा वै भद्राः सन्तोऽग्निमाधिसन्त (२)
तेषामनाहितोऽग्निरासीत् । अर्थेभ्यो वामं वस्व-
पाक्रामत् । ते पुनर्वस्वोरादधत । ततो वै ता-
न्वामं वसूपावर्तत । यः पुरा भद्रः सन्पापी-
यान्त्स्यात् । स पुनर्वस्खोरग्निमादधीत । पुन-
रेवैनं वामं वसूपावर्तते । भद्रो भवति , इति ।



No comments:

Post a Comment

Taitriya Bharhmana Bhashyam - II Kandam

सभाष्ये तैत्तिरीयब्राह्मणे द्वितीयं काण्डम् | ( तत्र प्रथमप्रपाठके प्रथमोऽनुवाकः ) यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं ...