अथ द्वितीयोऽनुवाकः ।
प्रथमानुवाके सोमयागशेपभूताः शुक्रामन्थिग्रहप्रचारमन्त्रा उक्ताः
अथाऽऽधानप्रकरणमारभ्यते । तत्रास्मिन्ननुवाके कालविशेषं विधत्ते-
कृत्तिकास्वग्निमादधीत । एतहा अग्नेर्न-क्षत्रम्। यत्कृत्तिकाः।
स्वामिवैनं देव-तायामाधाय । ब्रह्मवर्चसी भवति , इति ।
अग्निचयनकाण्डेऽम्बादुला नितत्निरित्याद्याः कृत्तिकास्ता यस्मिन्दिने चन्द्रेण
संयुज्यन्ते तस्मिन्दिने तासु कृत्तिकासु चन्द्रयोगं प्राप्तास्वग्न्याधानं कुर्यात् ।
यदेतत्कृत्तिकासंपातरूपं तदेतदग्निसंवन्धि नक्षत्रम् । अत एवान्यत्राऽऽन्नातम्-
“कृत्तिका नक्षत्रमग्निर्देवता" इति । अत आधेयस्याग्नेः कृत्तिकास्वाधाने सति
स्वरूपभूतायामेव देवतायामाधानं कृतं भवति । अग्नेाह्मणाभिमानित्वात्तत्प्र-
सादेनाधीतश्रुताध्ययनरूपब्रह्मवर्चससंपन्नो भवति ।
प्रकारान्तरेण प्रशंसति-
मुखं वा एतनक्षत्राणाम् । यत्कृत्तिकाः । यःकृत्तिकास्वग्निमाधत्ते । मुख्य एव भवति , इति ।
कृत्तिका इति यत्तदेत नक्षत्राणां मध्ये मुखं प्रथमं नक्षत्रम् । अत एव
नक्षत्रप्रतिपादकेऽप्यनुवाक आदौ पठ्यते “कृत्तिका नक्षत्रमग्निर्देवता" इत्ये-
कत्र । “अग्नेः कृत्तिकाः शुक्रं परस्तात्" इत्यन्यत्र । “अग्निर्नः पातु कृत्तिकाः।
नक्षत्रं देवमिन्द्रियम्' इत्यन्यत्र । तदेतत्सर्वे मन्त्रानुवाकेविष्टिविधायकेऽप्य-
नुवाक एतदीयैवेष्टिरादावाम्नाता “अग्निर्वा अकामयत । अन्नादो देवाना


No comments:
Post a Comment