ॐ तत्सद्ब्रह्मणे नमः।
कृष्णयजर्वेदीयं
तैत्तिरीयत्राह्मणम्
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् ।
आदिम काण्डम् ।
( तत्र प्रथमप्रपाठके प्रथमोऽनुवाकः )
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ १॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ २॥
तत्कटाक्षेण तद्रूपं दधद्रुकमहीपतिः ॥
आदिशन्माधवाचार्य वेदार्थस्य प्रकाशने ॥ ३ ॥
ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात् ।
कृपालुर्माधवाचार्यों वेदार्थ वक्तुमुद्यतः ॥ ४ ॥
व्याख्याता सुखबोधाय तैत्तिरीयकसंहिता ।
तह्राह्मणं व्याकरिष्ये सुखेनार्थविवुद्धये ॥५॥
यद्यपि संहिताया 'इपे त्वोर्ने त्वा' इत्यादीनां दर्शपूर्णमासमन्त्राणामादौ
समाम्नातत्वात्तद्व्याख्यानरूपे ब्राह्मणे पौरोडाशिककाण्डमादौ पठितव्यं तथाऽपि
दर्शपूर्णमासयोराहवनीयाद्यग्निसापेक्षत्वादग्नीनां चाऽऽधानसाध्यत्वात्पथमका-
ण्डस्याऽऽद्ये प्रपाठकेऽग्न्याधानविधिरुच्यते । यद्यपि 'कृत्तिकास्वग्निमादधीत'
इत्ययमेवाऽऽधानब्राह्मणस्योपक्रमस्तथाऽपि संहितायां ग्रहकाण्डे शुक्रामन्थिग्र-
हप्रचारार्थानां मत्राणामनुक्तत्वेनात्र वक्तव्यत्वात्तेषां चाऽऽशासनीयफलपति-
पादकत्वेन मङ्गलरूपत्वादाद्येऽनुवाके तान्परिशिष्टान्मत्रानभिदधानोर्थान्मन-
लाचरणं संपादयति-
१ क. "दाद्यानु।

No comments:
Post a Comment