शुक्रस्य॑ समिदसि । मन्थिनः समिसि ।
कल्प:- "मोक्षितावाधत्तः । शुक्रस्य समिदसीत्यध्वर्युमन्थिनः समिदसीति
प्रतिप्रस्थातत्यपोक्षितौ शकलो बहिनिरस्य प्रोक्षितो शकलावग्नावाधत्तःहे शकल त्वं शुक्रग्रहस्य समिन्धनहेतुरसि तथा हे शकल त्वं मन्थिग्रहस्य समि-न्धनहेतुरसि ।
स प्रथमः संकृतिविश्वकर्मा । स प्रथमो मित्रो
वरुणो अग्निः । स प्रथमो बृहस्पतिश्चिकि-
खान् । तस्मा इन्द्राय सुतमा होमि (५)
नयन्त्वपान्५ संधत्तं तं मे जिन्वतं प्राणं यज्ञाय धत्तं मानुपीरनि च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथम-प्रपाठके प्रथमोऽनुवाकः ॥ १ ॥
कल्पः- "शुक्रामन्थिनोः प्रतिनिगद्य होमः-स प्रथमः संकृतिविश्वकर्मा
स प्रथमो मित्रो वरुणो अग्निः स प्रथमो बृहस्पतिश्चिकित्वांस्तस्मा इन्द्राय
सुतमाजुहोमि" इति । इतरग्रहेषु होतृप्रयुक्तवपदकारेणैव होमः । न त्वध्वर्योर्म-
पाठोऽस्ति । इह त्वेनं मत्रं प्रतिनिगद्य होमः कर्तव्यः । स इन्द्रः प्रथमो
देवानां मध्ये मुख्यः। संकृतिः समीचीना कृतिर्जगद्रक्षणरूपव्यापारी यस्यासों
संकृतिः । विश्वानि कर्माणि जगद्रक्षणहेतुभूतान्यसुरयुद्धादीनि यस्यासौ विश्व-
कर्मा स एव मुख्य इन्द्रो मूर्तिविशेपान्धृत्वा मित्रादिरूपः संपन्नः । स एवेन्द्र-
श्चिकित्वान्सर्वज्ञानकुशलो बृहस्पतिरपि संपन्नः। तस्मै तादृशायेन्द्राय सुतमाभि-
पुतमिमं सोममा सर्वतो जुहोमि ।
अत्र विनियोगसंग्रहः-
अध्वर्युश्च प्रतिप्रस्थाता चाऽऽदाय ग्रहावुभौ ।
ब्रह्म शुक्रामन्थिपात्रं संधत्ते वेदिपश्चिमे ।।
स्तुतौ ग्रहावाददीत सुवीर्यातो दिशोर्द्वयोः ।
संजग्म वेदेः पुरतः संधत्तः पूर्ववद्हौ ।
आगमन्त्रयतेऽध्वर्युनिरस्तः शकलौ त्यजेत् ।
गांसुमपध्वस्य शुक्रामन्थिद्वयादुभौ ।।
प्रोक्षितौ शकलौ क्षिप्त्वा स प्रेति ग्रहयो तिः ।
स्तुतः स्तुतो निरस्तेति द्वयं द्वयमुदीरितम् ।
आद्यानुवाके कथिता मन्त्रा एते त्रयोदश ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥

No comments:
Post a Comment