अनारभ्याधीतं पर्णमयीत्वं यथा जुहूप्रनाड्या प्रकृतौ निविष्टं तथैवाग्निप्र-
नाड्या तत्संस्काररूपमाधानं प्रकृतौ निविशत इति चेत् । मैवम् । वैषम्यात् ।
द्विविधो हि जुह्वा आकारः । लौकिकः शास्त्रीयश्च । अरनिमात्रदैर्घ्यहंसमुख-
स्वावाग्विलत्वादिरूपो दृश्यमानो लौकिकः । अपूर्वीयत्वाकारस्तु शास्त्रीयः ।
तयोरपूर्वीयत्वं क्रतुप्रवेशमन्तरेण नास्ति । तच्च यदि लौकिकाकारमात्रे पर्यव-
स्येत्तदा पर्णमयीत्वं विफलं भवेत् । काष्टान्तरेणापि तदाकारस्य सुसंपादक-
त्वात् । अतोऽपूर्वीयत्वाय पर्णता क्रतौ प्रविष्टा । आहवनीयादीनां त्वेक एव
शास्त्रीयाकारः । स च विधिवलादाधानेनैव जन्यते नान्यथा । तस्मादाधा-
नस्य क्रतुप्रवेशं विनैव शास्त्रीयाहवनीयाद्याकारसंपादनसमर्थत्वादग्निमात्रेण
तत्संयुज्यते । तथा सति पर्णवैषम्यात्प्रकृतावप्रविश्यानीनुत्पाद्य क्रतुवत्स्वात-
येणावतिष्ठते । ततो लौकिकोपायसंपादितसुवर्णव्रीह्यादिवदाधानसंपादितानां
स्वतत्राणामेवाऽऽवनीयाद्यनीनां पश्चाद्वाक्यैः क्रतुषु विनियोगोऽस्तु ।
तत्रैवान्यचिन्तितम्-
"आधानं पवमानादेरिष्टेरॉ न वा भवेत् ।
अग्नीनामिष्टिशेपत्वात्तद्वाराऽस्य तदङ्गता ॥
आनारभ्य विधानात्तु नाङ्गं कस्यचिदाहितिः ।
अग्न्यर्थत्वात्तत्समेष्टिरग्नयस्त्वग्निहोत्रगाः" ॥
इदमाम्नायते—'अग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेदग्नये पावका-
याग्नये शुचये" इति । “ वसन्ता ब्राह्मणोऽग्निमादधीत" इति च। तत्राऽऽ-
धानं पवमानादीनामिष्टीनामङ्गं भवेत् । कुतः । दर्शपूर्णमासविकृतिषु पवमा-
नादीष्टिषु चोदकप्राप्तानामाहवनीयाद्यग्नीनामिष्ट्यङ्गत्वे सत्यग्निद्वारा तत्संस्का-
ररूपस्याऽऽधानस्यापि तदङ्गताया अनिवार्यत्वादिति चेत् । मैवम् । न ह्येत-
दाधानं कस्यचित्क्रतोः प्रकरणे पठितं किंत्वनारभ्याधीतम् । अतो न कस्या-
प्यङ्गम् । किंत्वाधानवदिष्टीनामपि अग्निसंस्कारार्थत्वात्परस्परं नास्त्यङ्गाङ्गि-
भावशङ्का । ननु पवमानेष्ट्यङ्गत्वाभावेऽग्निसंस्कारवैयादग्निद्वारा तदङ्गत्वं
गुक्तमिति चेत् । न । संस्कृतानामनीनामग्निहोत्राद्युत्तरक्रतुपु तत्तद्वाक्यैर्विनियो-
गावगमात् । तस्मान्नाऽऽधानमङ्गम् ।
द्वितीयाध्यायस्य तृतीयपादे चिन्तितम् ।
"वसन्ते विप्र आदध्यात्तत्रैवोपनयीत तम् ।
अनुवादः प्रापणं वाऽनुवादः कालसिद्धये ॥
१ ख. 'खत्वमबिल । २ क. 'स्याप्येतदङ्ग ।


No comments:
Post a Comment