योज्यम् । क्षत्रं देशाधिपतिस्वामिगता क्षत्रियजातिः । इडित्यन्नम् । ऊर्धरा-
दिरसः । रयिर्धनम् । पुष्टिः शरीरपोषः। प्रजा पुत्रपौत्रादिः। पशवो गवादयः।
स्तुतोऽसि जनधाः । देवास्त्वां शुक्रपाः प्रणयन्तु (१)
कल्पः- "स्तुतोऽसि जनधा देवास्त्वा शुक्रपाः प्रणयन्त्विति शुक्रमध्व-
युरादत्ते'' इति । पूर्वोक्तग्रहसंधानात्मागेवेदमुपादानम् । पाठक्रमादर्थक्रमस्य
वलवत्त्वात् । हे शुक्रग्रह त्वमस्माभिः स्तुतोऽसि । हे जनधा जनानां धार-
यितः । शुक्रग्रहा ये देवाः शुक्रपात्रस्थस्य सोमस्य पातारस्ते त्वां प्रकर्षणाऽऽ-
हवनीयसमीपे नयन्तु ।
सुवीराः प्र॒जाः प्रजनयन्परीहि। शुक्रः शुक्रशोचिषा।
कल्पः- "सुवीराः प्रजाः प्रजनयन्परीहि शुक्रः शुक्रशोचिपा, इति दक्षि-
णेनाध्वर्युः प्रतिपद्यते” इति । पात्रं हस्ते गृहीत्वा हविर्धानस्य पूर्वद्वारि निर्ग-
त्योत्तरवेदेर्दक्षिणेन मार्गेण पूर्वस्यां दिश्यध्वर्युगच्छति । हे शुक्रग्रह शुक्रशो-
चिपा भास्वरदीप्त्या युक्तः सुवीराः शोभनवीरभृत्ययुक्ताः प्रजाः पुत्रपौत्रा-
दिकाः प्रजनयनुत्पादयनुत्तरवेदेः परितो गच्छ ।
स्तुतोऽसि जनधाः । देवास्त्वा मन्थिपाः प्रणयन्तु ।
कल्पः- "स्तुतोऽसि जनधा देवास्त्वा मन्थिपाः प्रणयन्तु, इति मन्थिन
प्रतिप्रस्थाता" इति । आदत्त इत्यनुवर्तते । हे मन्थिग्रह त्वमस्माभिः स्तुतोऽसि ।
हे जनधा जनानां धारयितर्मन्धिपात्रस्थस्य सोमस्य पातारो ये देवास्ते त्वां
प्रकर्पणाऽऽहवनीयसमीपे नयन्तु ।
सुप्रजाः प्रजाः प्रजनयन्प-रीहि । मन्थी मन्थिशोचिषा ।
कल्पः-"सुप्रजाः प्रजाः प्रजनयन्परीहि मन्थी मन्थिशोचिपा, इत्युत्त-
रेण प्रतिप्रस्थाता" इति । प्रतिपद्यत इत्यनुवर्तते । हे ग्रह त्वं मन्थी मन्थि-
नामको ग्रहो भूत्वा मन्थिशोचिषा मन्थ्याख्यस्य तव तेजसा युक्तः सुप्रजाः
शोभनापत्योपेताः प्रजा भ्रातृवन्ध्वादिकाः प्रजनयन्नुत्पादयन्परीहि, उत्तरवेदे-
रुत्तरभागे परीत्य पूर्वस्यां दिशि गच्छ ।

No comments:
Post a Comment