Sunday, May 30, 2021

कृष्णयजुर्वेदीयं तैत्तिरीयब्राह्मणम्। श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । 05 & 06




संजग्मानौ दिव आ पृथिव्याऽऽयुः । 

संधत्तं तन्मे जिन्वतम् । प्राण संधत्तं तं में जिन्वतम् । अपान, संधत्तं तं मै जिन्वतम् (२)

व्यान५ संधत्तं तं में जिन्वतम्। चक्षुः संधत्तं तन्मे जिन्वतम् । 

श्रोत्र संधत्तं तन्में जिन्वतम् । 

मनः संधत्तं तन्मे जिन्वतम् । वाच संधत्तं तां में जिन्वतम् ।

कल्प:- "अग्रेणोत्तरवेदि ग्रहावरत्नी वा संधत्तः-संजग्मानौ दिव आ

पृथिव्याऽऽयुः संधत्तं तन्मे जिन्वतं प्राण संधत्तं तं मे जिन्वतमपान

संधत्तं तं मे जिन्वतं व्यान५ संधत्तं तं मे जिन्वतं चक्षुः संधत्तं तन्मे

जिन्वतं श्रोत्र५ संधत्तं तन्मे जिन्वतं मनः संधत्तं तन्मे जिन्वतं वाच

संधत्तं तां मे जिन्वतम् , इति । हे शुक्रामन्थिनौ युवां संजग्मानौ परस्परं

संगतावैकमत्यं गतावा दिवो द्युलोकसहितया पृथिव्या च संगतावस्मदीयमायुः

संधत्तं सम्यग्धारयतमभिवर्धयतमित्यर्थः । प्राण ऊर्ध्वगामी वायुः । अपा-

नोऽधोगामी वायुः । व्यानो मध्यवायुः । चक्षुःश्रोत्रे मनो वाक्चेत्येतानीन्द्रि-

याणि । एतेषु सर्वेषु पूर्ववद्याख्येयम् । ब्रह्म संधत्तमित्यत्रोत्तरवेदेः पश्चात्सं.

धानम् । इह तु पुरस्तादिति विशेषः ।

आयुः स्थ आयुर्मे धत्तम् । आयुर्यज्ञाय धत्तम् ।

आयुर्यज्ञप॑तये धत्तम् । प्राणः स्थः प्राणं में

धत्तम् । प्राणं यज्ञायं धत्तम् (३) प्राणं

यज्ञपतये धत्तम् । चक्षुः स्थश्चक्षुर्मे धत्तम् ।

चक्षुर्यज्ञायं धत्तम् । चक्षुर्यज्ञप॑तये धत्तम् ।

श्रोत्र स्थः श्रोत्रं मे धत्तम् । श्रोत्रं यज्ञाय

धत्तम् । श्रोत्रं यज्ञपतये धत्तम् । तौ देवौ 

शुक्रामन्थिनौ । कल्पयतं दैवीर्विशः। कल्प-

यतं मानुषीः (४) इपमूर्जमस्मासु धत्तम् ।

प्राणान्पशुधू । प्रजां मयि च यजमाने च ।




कल्प:- "अथैनावध्वर्युरभिमन्त्रयते आयुः स्थ आयुर्मे धत्तमायु-

यज्ञाय धत्तमायुर्यज्ञपतये धत्तं प्राणः स्थः प्राणं मे धत्तं प्राणं यज्ञाय धत्तं

प्राणं यज्ञपतये धत्तं चक्षुः स्थश्चक्षुर्मे धत्तं चक्षुर्यज्ञाय धत्तं चक्षुर्यज्ञपतये

धत्तं श्रोत्र स्थः श्रोत्रं मे धत्तं श्रोत्रं यज्ञाय धत्तं श्रोत्रं यज्ञपतये धत्तं तो देवी

शुक्रामन्थिनौ कल्पयतं दैवीविंशः कल्पयतं मानुपीरिपमूर्जमस्मासु धत्तं प्राणा-

न्पशुषु प्रजां मयि च यजमाने च” इति । हे शुक्रामन्थिनौ युवामायुः स्थ

आयुषः स्वामिनौ भवथः । अतो मे ममाध्वर्योरायुर्धत्तमभिवर्धयतम् । तथा यज्ञ-

स्याप्यायुर्धत्तम् । समाप्तिरेव यज्ञस्याऽऽयुः । तथा यज्ञपतये यजमानस्याप्यायु-

रभिवर्धयतम् । एवं प्राणादिपु योज्यम् । तौ युवां प्राणादिस्वामिनौ शुक्राम-

न्थिनौ ग्रहद्वयाधिपती देवौ दैवीविंशो देवसंवन्धिनीः प्रजाः कल्पयतमस्म-

दनुकुलाः कुरुतम् । तथा मनुष्यजातियुक्ताः प्रजाश्चास्मदनुकूलाः कुरुतम् ।

किंचेषं व्रीह्याद्यन्नमूर्ज क्षीरादिरसं चास्मासु स्थापयतम् । पशुपु गवादिपु चिर-

जीवनहेतून्प्राणान्स्थापयतम् । मय्यध्वयौँ चास्मिन्यजमाने च प्रजां पुत्रपौत्रा-

दिरूपां स्थापयतम् ।

निरस्तः शण्डः । निरस्तो मर्कः।

कल्पः- "अमोक्षितौ शकलौ वहिर्वेदि निरस्यतो निरस्तौ शण्डामौं सहा-

मुनेति निरस्तः शण्ड इति वाऽध्वयुद्वेष्यं मनसा ध्यायन्निरस्तो मर्क इति प्रति-

प्रस्थाता" इति । अत्र द्विवचनान्तो मन्त्रः शाखान्तरगतः। योऽयं शण्डाख्योऽ-

सुरपुरोहितः सोऽयं यज्ञभूमेदेवहिनिष्कासितः । यश्च मर्काख्योऽसुरपुरोहितः

सोऽपि वहिनिष्कासित इत्याभ्यां मन्त्राभ्यामुभावप्रोक्षितौ काष्ठशकलौ वहि-

निरस्यतः।

अपनुत्तौ शण्डामी सहामुना।

कल्पः---"तौ प्रोक्षिताभ्यां शकलाभ्यामपिधायाप्रोक्षिताभ्यामधस्तात्पांसू-

नपध्वंसयत । अपनुत्तौ शण्डामौ सहामुना” इति । अयं च मत्रोऽर्थक्रमानु-

सारेण शकलनिरसनमन्त्रात्प्रागेव द्रष्टव्यः । पात्रयोरधस्तनपांसुरूपेणावस्थितौ

शण्डामर्कावसुरावमुनाऽस्मद्वेष्येण सहापनुत्तौ निराकृतौ ।



No comments:

Post a Comment

Taitriya Bharhmana Bhashyam - II Kandam

सभाष्ये तैत्तिरीयब्राह्मणे द्वितीयं काण्डम् | ( तत्र प्रथमप्रपाठके प्रथमोऽनुवाकः ) यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं ...