भद्रा धनसंपन्ना आधित्सन्ताऽऽधातुमैच्छन् । तेषां धनगर्वेण श्रद्धाराहि-
त्यादग्निः सम्यगाहितो नाऽऽसीत् । अनन्तरं तेन विकलानुष्ठानेन तदीयं
वामं वननीयं मणिमुक्तादिकं धनं तेभ्योऽपगतम् । ततस्ते देवाः श्रद्धालवो
भूत्वा पुनर्वसू नक्षत्रावयवौ तारकाविशेषौ यस्मिन्दिने चन्द्रेण युक्तौ तस्मिन्दि-
नेऽग्निं सम्यगाधाय तद्धनं पुनर्लब्धवन्तः । ततोऽप्यन्योऽपि पूर्वं धनिकः सन्के-
नापि निमित्तेन पश्चात्पापीयान्स्यादत्यन्तनिर्धनो भवेत् । स पुनर्वस्वोरग्निमां-
धाय पूर्ववद्धनं प्राप्य सर्वेषां मध्ये भद्रः पूज्यो भवति । पुनरपि वसु लभ्यते
ययोस्तौ पुनर्वसू ।
अथ नक्षत्रान्तरं विधत्ते-
यः कामयेत दानकामा मे प्रजाः स्युरिति।
स पूर्वयोः फल्गुन्योराग्नमादधीत (३) ।
अर्यम्णो वा एतन्त्रक्षेत्रम् । यत्पूर्व
फल्गुनी। अयमेति तमाहुर्यों ददाति ।
दानकामा अस्मै प्रजा भवन्ति, इति ।
सर्वाः प्रजा मे मह्यं धनं दातुमिच्छन्त्विति यो यजमानः कामयेत सोऽयं
पूर्वयोः फल्गुन्योराधाय प्रजाभिर्दत्तं धनं लभते । एतच्च नक्षत्रमर्यमदेवता-
कम् । “फल्गुनी नक्षत्रमर्यमा देवता" इत्यन्यत्राऽऽम्नानात् । अरीन्यमयति
धनदानेन वशी करोतीत्यर्यमा धनस्य दाता ।
नक्षत्रान्तरं विधत्ते-
यः कामयेत अगी स्यामिति । स उत्तरयोः
फल्गुन्योरग्निमादधीत । भर्गस्य वा एतन्ना-
त्रम् । यदुत्तरे फल्गुनी । भग्यैव भवति, इति ।
भगी, ऐश्वर्यादिगुणषट्ककामः । तथा च स्मर्यते-
"ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा" इति ।

No comments:
Post a Comment