पृष्टित एव संवत्सरस्यानिमाधाय । पापीया-
म्भवति । उत्तरयोरादधीत । एषा वै प्रथमा
रात्रिः संवत्सरस्य । यदुत्तरे फल्गुनी । मुखत
एव संवत्सरस्याग्निमाधाय।वसीयान्भवति, इति ।
फाल्गुनमासे येयं पूर्णिमा तत्र प्राप्तं यत्पूर्वफल्गुनीनक्षत्रं तयुक्ता रात्रिः
पूर्वसंवत्सरस्य समाप्तिस्थानीया । अतस्तत्राऽऽदधानः संवत्सरस्य पृष्टितः
पृष्ठभागेऽनुष्टानादरिद्रो भवति । उत्तरफल्गुनीनक्षत्रे भाविसंवत्सरादित्वात्त-
त्राऽऽदधानः संवत्सरमारम्भ एवाऽऽधायात्यन्तधनिको भवति ।
पक्षान्तरं विधत्ते-
अथो खल। यदेवैन यज्ञ उपनमेत् ।
अथाऽऽदधीत । सैवास्यधिः (८), इति ।
खत्वैधित्सन्त फल्गुंन्योरग्निमादेवीतासन्नपततामृतूनां वैश्य॑स्यतुरुत्तरे
फल्गुनी षट्
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्र-
पाठके द्वितीयोऽनुवाकः ॥ २ ॥
अन्येऽभिज्ञा एवमाहुः खलु यस्मिन्नेव काल एनं पुरुषं सोमयज्ञः प्राप्नुया-
सोमयागं करिष्याम्यहमिति बुद्धिरुदियात्तदानीमेवाऽऽदधीत । न तु नक्षत्रादिकं
परीक्षितव्यम् । सैव सोमयागबुद्धिरेवास्य पुरुषस्य नक्षत्रादिकृत्स्नविहितकाल-
समृद्धिः। अत एव सूत्रकारेणोक्तम्- “सोमेन यक्ष्यमाणो नर्तुं सूक्षैन्न नक्षत्रम्"
इति । अत्र मीमांसा । तृतीयाध्यायस्य षष्ठपादे चिन्तितम्-
"आधानं किं प्रकृत्यर्थं वह्निमात्रेण वा युतम् ।
संस्कृताग्निनाड्यै तत्पर्णवत्प्रकृतौ स्थितम् ॥
लौकिकाकारमात्रत्वे विफलत्वात्क्रती युतिः।
पर्णस्याऽऽहवनीयादौ शास्त्रीयेऽस्तु स्वतत्रता" ॥

No comments:
Post a Comment