Sunday, May 30, 2021

कृष्णयजुर्वेदीयं तैत्तिरीयब्राह्मणम्। श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । 11



तत्काम उत्तरयोः फल्गुन्योराधाय तत्फलं प्रामोति । उत्तरयोः फल्गुन्यो-

भगदेवताकत्वमन्यत्राऽऽम्नातम् । “फल्गुनी नक्षत्रं भगो देवता" इति ।

अथ नक्षत्रान्तरं विधत्ते-

कालकञ्जा वै नामामुरा आसन् (४)। ते

सुवर्गीय लोकायाग्निमचिन्वन्त । पुरुष इष्ट-

कामुपादधात्पुरुष इष्टकाम् । स इन्द्रो ब्राह्मणो

ब्रुवाण इष्टकामुपाधत्त । एषा में चित्रा नामेति ।

ते सुवर्गलोकमाप्रारोहन् । स इन्द्र इष्टकामा-

हत् । तेऽवाकीर्यन्त । येऽवाकीर्यन्त। त ऊर्णावा-

योऽभवन् । हावुदपतताम् (५)। तौ दिव्यौ श्वाना-

वभवताम्। यो भ्रातृव्यवान्त्स्यात् । स चित्रायो

मग्निमादधीत । अवकीय भ्रातृव्यान् ।

ओजो बलमिन्द्रियं वीर्थमात्मन्यत्ते ।


कालकञ्जशब्दोऽसुरविशेषनामधेयम् । ते चासुरा यदा स्वार्थमग्निं चेतुं

पारभन्त तदानीमेकैकोऽसुर एकैकामिष्टकामुपादधात् । तानसुराजेनुकाम

इन्द्रो वेषान्तरं कृत्वा ब्राह्मणोऽहमिति वाणस्तन्मध्ये प्रविश्य कांचिदिष्टका-

मुपाधत्त । तदानीं मनस्येपा मे मदीयेष्टका चित्रेति नामधेयेन युक्ताऽ-

पेक्षितविचित्रफलप्रदातृत्वादित्यमन्यत । तेन चाग्निचयनेनासुराः स्वर्गमा-

रोढुं प्रारभन्त । तदानीं स इन्द्रः स्वकीयां तामिष्टकां चितेरुद्धृतवान् । चिति-

भ्रंशेन मार्गमध्य एवासुराः प्रभ्रष्टाः। ते चोर्णनाभिनामका लताः कीटा

अभवन् । तेन कीटेन संसृष्टं तन्तुजालमूर्णशब्देनोच्यते । ऊो तस्मिन्नणे

सूत्रजाले स्थिता अभयो भीतिरहिता आसते । ते ह्याधारयोः काष्ठयोर्मध्य

आकाशे तन्तुजालं सृष्ट्वा तत्र निर्भयास्तिष्ठन्तीत्येतत्सर्व लोकप्रसिद्धम् ।

ऊर्णावभय इति पदद्वयं मिलित्वैकं नामधेयम् । अपांनपादिति पदवयं

यथैकस्याग्नेनीम तद्वत् । तेषामसुराणां मध्ये द्वावसुरी श्रद्धातिशयात्स्वर्ग

१ ग. तनुनपादिति ।


No comments:

Post a Comment

Taitriya Bharhmana Bhashyam - II Kandam

सभाष्ये तैत्तिरीयब्राह्मणे द्वितीयं काण्डम् | ( तत्र प्रथमप्रपाठके प्रथमोऽनुवाकः ) यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं ...