प्राप्य चितिभ्रंशात्तत्र देवलोके श्वानावभूताम् । यस्मादत्रेन्द्रश्चित्रेष्टकापातेन
तानसुरान्विनाशितवान् । तस्माद्यजमानश्चित्रानक्षत्रेऽग्निमाधाय भ्रातृव्या.
विनाश्य स्वस्मिन्नोजआदिकं स्थापयति । ओजो वलहेतुरष्टमो धातुः । बलं
प्रसिद्धम् । इन्द्रियं चक्षुरादिकम् । वीर्यं तदीयव्यवहारपाटवम् ।
इत्थं नक्षत्राणि विधायाधिकारिविशेषादृतून्विधत्ते-
वसन्ता ब्राह्मणोऽग्निमादधीत । वसन्तो वै ब्राह्मणस्य॒तुः ।
स्व एवैनमृतावाधाय । ब्रह्म-
वर्चसी अवति । मुखं वा एततूनाम् ( ६ )।
यसन्तः । यो वसन्ताऽग्निमांधत्ते । मुख्य एव
भवति । अथो योनिमन्तमेवैनं प्रजातमाधत्ते ।
ग्रीष्मे राजन्य आदधीत । ग्रीष्मो वै राजन्य-
स्य ः।स्व एवैनमृतावाधाय। इन्द्रियावी अवति।
शरद वैश्य आदधीत । शरदै वैश्य॑स्य॒तुः(७)।
स्व एवैनमृतावाधार्य । पशुमान्भवति , इति ।
वसन्तो वसन्तर्तुस्तस्य च ब्राह्मणस्य च प्राथम्यसाम्यात्स्वस्वामिभावा-
त्स्वकीयऋतावादधानस्य ब्राह्मणस्य स्वोचितं ब्रह्मवर्चसमेव फलम् । किंच
'मधुश्च माधवश्च वासन्तिकातू' इत्याम्नानान्मुखत्वं प्राथम्यं वसन्तस्याप्यवग-
न्तव्यम् । अपि च यथा स्त्रीणामृतुविशेषे प्रवृत्तः पुरुषः प्रजननसमर्थों भवति
तथर्तुविशेषे योनिमन्तं प्रजननसामर्थ्यवन्तं प्रादुर्भूतं प्रजातं चाग्निमाधत्ते । एवं
ग्रीष्मशरद्वाक्ययोरपि व्याख्येयम् ।
पूर्व काम्य आधाने पूर्वोत्तरफल्गुनीनक्षत्रद्वयं विहितम् । इदानीं तु नित्य
आधाने नक्षत्रमेकं निषिध्येतरद्विधत्ते--
न पूर्वयोः फल्गुन्योरग्निमादधीत । एषा वै
जघन्या रात्रिः संवत्सरस्य । यत्पूर्वे फल्गुनी।

No comments:
Post a Comment