Saturday, December 23, 2023

Taitriya Bharhmana Bhashyam - II Kandam

सभाष्ये तैत्तिरीयब्राह्मणे द्वितीयं काण्डम् | ( तत्र प्रथमप्रपाठके प्रथमोऽनुवाकः ) यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् || १ || आधानं वाजपेयश्च राजसूयस्तथाऽपरे । कर्मशेषाः केचिदत्र काण्डे प्रथम ईरिताः || २ || अग्निहोत्रं च होतार उपहोमाख्यमत्रकाः । सौत्रामणीसवाः सूक्तं वक्ष्यन्तेऽस्मिन्द्वितीयके ॥ ४ ॥ काण्डे प्रपाठका अष्टाविहाऽऽग्रे तु प्रपाठके । अग्निहोत्र उपोद्घातोऽनुवाके प्रथमे भवेत् ॥ ४ ॥ प्रतिपाद्यमर्थ बुद्धौ संगृह्य तदर्थमर्थान्तरवर्णनमुपोद्घातः । इह चाग्निहोत्रं प्रतिपाद्यं तद्बुद्धौ संगृह्य तत्प्रशंसा प्रथमं क्रियते । महाभागैः पितृभिरप्यस्मि - अग्निहोत्रे भागधेयं प्रार्थितम् । किमु वक्तव्यमग्निहोत्रस्य माहात्म्यमित्येवं प्रशंसा । तदर्थमिमामाख्यायिकामाह- अङ्गि॑र॒सो वै सत्रमा॑सत॒ । तेषां पृश्निर्वर्मधुर्गा- सीत् । सर्जीषेण जीवत् । ऽब्रुवन् । कस्मै नु सत्रमास्महे । येऽस्या ओष॑धीर्न जनयम इतिं । ते दिवोवृष्टिंमसृजन्त । यावन्तः स्तोका अवाद्यन्त । ताव॑तीरोष॑धयोऽजायन्त इति । अङ्गिराश्चतुर्थवेदमवर्तकाचार्य: । तस्य कुले समुत्पन्नाः सर्वेऽप्यङ्गिरसः । ते यदा सत्रमन्वतिष्ठस्तदा तेषां पृश्निः काचिच्छ्वेता गौर्धर्मधुगासीत् । प्रवर्ग्य- 19th १ क. निःश्वसितं । २ ग. 'होमाः सम' ।
३३८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [ २द्वितीयकाण्डे-हविर्धर्मः ।
तं दोग्धीति धर्मधुक् । सा चारण्ये तृणमलब्ध्वा निष्पीडितरसस्य सोमस्य यदृजीषं तद्भक्षणेनाजीवत् । तदा कृपालवोऽङ्गिरसः परस्परमिदमब्रु- वन् । ये वयमस्या गोर्भक्षणाय तृणविशेषानपि नोत्पादयामस्तादृशा अस- मर्था वयं कस्मै खलु प्रयोजनाय सत्रमनुतिष्ठामः । ऋद्धिकामैर्हि सत्रमनुष्ठे- यम् । गोग्रासमपि संपादयितुमशक्तानामस्माकं का नामान्या समृद्धिर्भविष्य- तीति । ततः कारीर्याद्यनुष्ठानेन तैर्दृष्टौ संपादितायां यावन्तो जलविन्दवस्ता- वत्य ओषधय उत्पन्नाः ।
अथाग्निहोत्रमशंसाप्रसङ्गेन पितृभ्यो लेपमार्जनं विधत्ते - 1 ता जाताः पितरो विषेण लिम्पन ( १ ) । तासां जग्ध्वा रुप्यन्त्यैव । ऽब्रुवन् । क इद- मित्थम॑क॒रति॑ । व॒यं शा॑ग॒धेय॑मि॒च्छमा॑ना॒ । इतिं पितरोऽब्रुवन् । किं व आगधेयमिति । अग्निहोत्र ए॒व नोऽप्यस्त्वित्य॑ब्रुवन् । तेभ्य॑ ए॒तद्वा॑ग॒धेयं प्राय॑च्छन् । यदु॒त्वा निमार्ष्टि । 1 ततो वै त ओष॑धीरस्वद्यन् इति । " या उत्पन्ना ओषधयस्ता एताः पितृभिर्विशेषेण लेपिताः । तासां मध्ये कियदपि तृणं भक्षयित्वा विषदोषेण पीडां प्रामुवती सत्रमागात् । तां दृष्ट्वा तेऽङ्गिरसः को नामेत्थं कृतवानिति विचारितवन्तः । तदानीं भागार्थिनो वय- मिति पितृभिरुक्ते सति तदिच्छानुसारेणाप्यग्निहोत्र एव तेषां भागं दत्तवन्तः । तेन लेपमार्जनेन भागेन तुष्टाः पितरो विषमपनीय ता ओषधीः स्वादूकृत- वन्तः । यदेतद्धोमानन्तरभावि लेपमार्जनं तत्सूत्रकारेण स्पष्टमुक्तम् - "प्राचीनावीति स्वधा पितृभ्यः पितृञ्जिन्वेति दक्षिणेन वेदिं भूम्यां लें निमृज्य" इति । तदेतद्विषापनयनवेदनं प्रशंसति य ए॒वं वेद॑ ( २ ) । स्वद॑न्तेऽस्मा॒ ओष॑धयः, इति ।
" · प्रपा ० १ अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीय ब्राह्मणम् । अथैतद्धेनुप्रसङ्गाद्बुद्धिस्थं वत्सविषयं कंचिद्धर्मं सूचयति — ते व॒त्समुपार्वासृजन् । इदं नो हव्यं प्रदप- येतिं । सोऽब्रवीद्दरं वृणै । दर्श मा रात्रींजतं न दोहन् । आसंगवं मात्रा सह चैराणीति । तस्मा॑द्दत्सं जातं दश रात्रीर्न दुहन्ति । आसंगवं मात्रा सह चरति । वारे वृत‍ ह्य॑स्य । तस्मा॑द्दत्सः ससृष्टधयः रुद्रो घातुकः । अति हि संधां धर्यति ( ३ ), इति । अलिम्पन्वेद घातुक एकं च ॥ 1
इति कृष्णयजुर्वेदीयतैत्तिरीय ब्राह्मणे द्वितीयकाण्डे प्रथमप्र- पाठके प्रथमोऽनुवाकः ॥ १ ॥ ३३९ हे वत्स नोऽस्मदर्थं स्तनपानपूर्वकं गां दोहयित्वा प्रवयर्थमिदं हव्यं प्रदाप येत्येवं वदन्तस्तेऽङ्गिरसो वत्सं पाशात्प्रमुच्य गोसमीपे प्रेरितवन्तः । स च वत्सो वरं वृतवान् । जातं मां दृष्ट्वा दशरात्रीर्भवन्तो गां न दुहन्तु प्रतिदिनं दोहादूर्ध्वं संगवकालपर्यन्तं मात्रा सह संचराणीति । यस्मादयं वत्सेन वरो वृतस्तस्माच्छु- तिस्मृत्यभिज्ञाः शिष्टा दशसु रात्रीपु गां न दुहन्ति । वत्सं संगवपर्यन्तं मात्रा सह मुञ्चन्ति । यस्मात्संगवपर्यन्तमेव वत्सेन वरो वृतस्तस्मात्संगवादृर्ध्वमग्निहोत्र्या धेन्वा सह संसृष्टः स्तनं पिवति यो वत्सस्तं वत्सं रुद्रः क्रूरोऽग्निर्हन्ति । अयं हि वत्सः संघां संगवपर्यन्तमित्येतादृशीं स्वकीयभाषामतिलङ्घ्य स्तनं पिवति तस्माद्रेण तस्य हननं युक्तम् । न ह्युत्तरकाले स्तने पीते सति रात्रावनि- होत्रार्थं हविः संभवति । अत्रैतद्धर्मत्रयमवगम्यते, दशसु रात्रिपु क्षीरं न ग्राह्यं प्रतिदिनमासंगवं मात्रा सह वत्सो मोचनीयः पचान्मातुः सकाशाद- पाकर्तव्य इति || इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीय- ब्राह्मणे द्वितीयकाण्डे प्रथमप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [२ द्वितीयकाण्डे-अथ प्रथमे द्वितीयोऽनुवाकः ।
प्रथमेऽनुवाकेऽग्निहोत्रस्योपोद्घात उक्तः । द्वितीयेऽग्निहोत्रं निरूप्यते । तत्राऽऽदौ तावत्स्वाहाकारमन्त्रस्योत्पत्ति वक्कुमाख्यायिकामाह -
प्र॒जाप॑तिरग्निम॑स्सृजत । तं प्रजा अन्व॑सृज्यन्त । तम॑भाग उपा॑स्त । सोऽस्य प्रजाभिरर्पाक्रामत् । तम॑व॒रुरुत्समा॒नोऽन्चैव । तम॑वरुधन्नाश॑क्रोव् ।स तपोऽतप्यत । सोऽग्निरुपरमंतातापि वै स्य प्र॒जाप॑ति॒रिति॑ । स र॒रादुद॑मृष्ट ( १ ) । तह॒तम॑भवव । तस्मा॒द्यस्य॑ दक्षिणतः केश उन्मृ॑ष्टाः । तां ज्यैष्टलक्ष्मी प्रजापत्येत्या॑हुः । यद्र- रामा॑दु॒मृ॑ष्ट । तस्मा॑द्रराटे केशा॒ न स॑न्ति । तद॒मौप्रागृह्णात् । तदूव्र्व्यचिकित्सव | जुहवानी ३- । माहौषा३मिति । तद्दिचिकित्साये जन्म, इति ।
यदा प्रजापतिना सृष्टमग्निमनु प्रजा अन्या असृज्यन्त तदानीं सोऽग्निर्भा - गरहित एव तं प्रजापति कंचित्कालमुपास्य खिन्नः सन्प्रजाभिः सह तस्मात्म- जापतेरपाक्रामत् । तमग्निमवरोद्धुमिच्छन्प्रजापतिः पृष्ठतो गत्वा पलायमानं तमवरोद्धुं नाशक्नोत् । अशक्तः स प्रजापतिः श्रमेण संतापं प्राप्तः । ततोऽ- निस्तं दृष्ट्वा स प्रजापतिस्तप्त इत्येवं वदन्पलायनादुपरतः । स च प्रजापतिः श्रमजन्यं स्वेदजलं स्वकीयललादादुन्मृष्टवान् । तच्च जलं घृतरूपेण प्रादुरभूत् । यस्मात्प्रजापतिः स्वकीयललाटस्य दक्षिणभागे स्थितं स्वेदजलममङ्गलं मन्य- मान उन्ममार्ज तस्माल्लोकेऽपि यस्य पुरुषस्य दक्षिणभागे केशा उन्मृष्टा इवोर्ध्वाः पृष्ठतोऽवनता उत्पद्यन्ते तस्य पुरुषस्य तां केशोत्पत्तिं प्रजापतिसंब- न्धिनी ज्येष्ठलक्ष्मीत्येवमभिज्ञा आहुः । लक्ष्म्याः पूर्वमुत्पन्ना ज्येष्ठलक्ष्मीर्या दारिद्र्यस्वामिनीं देवतामुद्दिश्य ज्येष्ठाव्रतमाचरन्ति । तद्रूपत्वादेव तथाविधं
६०२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् – [२ द्वितीयकाण्डे गोर्दुग्धेन परिषिच्य " इति । श्यामाकसत्तूंस्त्रेधा विभज्य तृतीयांशं सुराया- मुपरि विकीर्य तदुपरि दुग्धपरिषेचनार्थोऽयं मन्त्रः । तत्पाठस्तु -
 
परा॒तो षि॑ञ्चता सु॒तम् । सोमो॒ य उ॑त्त॒- म‍ हविः (१) ।
 दधन्वा यो नर्यो अप्स्व- न्तरा । 
सुषाव॒ सोम॒मद्भि॑भिः, इति ।

यः सोमलतात्मकस्तदेवेदमुत्तमं हविस्तदत्र सुतमभिषुतमितोऽस्मात्क्षीरा- त्परितः सिक्तमभूत् । यः सोमो नर्यो नराणां यजमानानां हितः सन्नप्स्व- न्तरा द्रवद्रव्येषु मध्य आ समन्तादधन्वा स्वादुत्वं धारयति तं सोममद्रिभि- रुपांशुसवनप्रभृतिभिः पाषाणैः सुषाव यजमानोऽभिषुतवान् ।
-- यदुक्तं सूत्रकारेण - " आज्यमुत्पूय पय उत्पुनाति प्राङ्सोमो अतिद्रुत इति सोमवामिनः, प्रत्यङ्सोमो अतिद्रुत इति सोमातिपवितस्य " इति । तत्र सोमवामिनो मन्त्रमाह -

पुनातु॑ ते परिस्रुत॑म् । सोम॒ सूर्य॑स्य दुहिता । वारे॑ण॒ शश्व॑ता॒ तना॑ ।
 वा॒युः प्रतः पवित्रेण । प्राइसोमो अति- द्रुतः । इन्द्र॑स्य युज्यः सखा, इति ।

हे इन्द्र ते त्वदर्थं सूर्यस्य दुहिता पयः पावयन्ती सूर्यस्य संबन्धिनी दुहि- तृस्थानीया दीप्तिः स्रुतं द्रवीभूतं सोमं सोमत्वेन भावितं पयोद्रव्यं वारेण वालजन्येन पवित्रेण पुनातु शोधयतु । कीदृशेन वारेण शश्वता शाश्वतेन दृढेन तना विस्तीर्णेन तादृशेनानेन पवित्रेण पूतः सोमः पयोरूपो वायुव- च्छीघ्रगामी भूत्वा प्रादूर्ध्व निर्गतः । कीदृशः सोम इन्द्रस्य युज्यो योग्यः सखा तादृशोऽयं सोमः शुद्धो भवत्वित्यर्थः । यः पूर्व सोमयागं कृत्वा वान्ति कृतवांस्तस्येदानीं सौत्रामण्यां पयः शोधनार्थोऽयं मन्त्रः । यस्य तु पुरा सोमो जीर्णः सोऽयं सोमातिपवितो यद्वा यस्य सोमो ऽ- धोद्वारेण निर्गतः सोऽयं सोमातिपवितस्तस्य पयःशोधनार्थं मन्त्रमाह- वा॒युः पूतः प॒वित्रे॑ण । प्रत्यङ्सोमो अति-

। इन्द्र॑स्य युज्यः सखा, इति ।

अत्र " पुनातु ते परिस्रुतम्” इति पूर्व भागोऽनुषज्यते । प्रत्यङ्ङतिब्रुतोऽधो निर्गतः । अन्यत्पूर्ववद्व्याख्येयम् ।
कल्पः -
 " ब्रह्म क्षत्रं पवत इति सुरां प्रतिप्रस्थाता" इति । पुनातीत्यनुव- र्तते । पाठस्तु -

ब्रह्म॑ क्षत्रं प॑वते॒ तेज॑ इन्द्रि॒यम् । सुरया सोमः ।
सुत आसुतो मय । शुक्रेण देव देवताः
पिष्टा॒ग्धि । रसेनान्नं यज॑मानाय धेहि, इति ।

ब्राह्मणजातिः क्षत्रियजातिश्च तेजःकारणमिन्द्रियवृद्धिकारणं वेदं द्रव्यं पवते पुनाति । अनया सुरया सह सोमः सुत उत्पादितः । मदाय देवानां मदार्थमासुतः सर्वतोऽभिषुत । हे सोमदेव तव शुक्रेण निर्मलेन रसेन देवता: पिपृधि संपृक्ताः कुरु । यजमानाय चान्नं संपादय ।
66
|
कल्पः --- “ अध्वर्युः पयोग्रहान्गृह्णाति कुविदङ्गेति सर्वेषामेका पुरोरुगेका पुरोनुवाक्या, एकः प्रेषः, एका याज्या, उपयामगृहीतोऽस्यश्विभ्यां त्वा जुष्टं गृह्णामीति गृहीत्वा यवसक्तुभिः श्रीत्वा पवित्रेण परिमृज्यैष ते योनिस्तेजसे खेति सादयित्वोपयामगृहीतोऽसि सरस्वत्यै त्वा जुष्टं गृह्णामीति गृहीत्वा गोधूमसकुभिः श्रीत्वा पवित्रेण परिमृज्यैष ते योनिर्वार्याय त्वेति सादयि- त्वोपयामगृहीतोऽसीन्द्राय त्वा सुत्राम् जुष्टं गृह्णामीति गृहीत्वोपवाकसक्तुभिः श्रीत्वा पवित्रेण परिमृज्यैष ते योनिर्बलाय त्वेति सादयित्वा" इति । तत्र पुरोरुचमाह-

कु॒विद॒ङ्ग यव॑मन्त॒ यव॑ चित् । यथा॒ दान्त्यं-
नुपूर्व वियूर्य । इहेहैंषां कृणुत भोज॑नानि ।
ये बर्हिषो नमोवृक्तिं न जग्मुः इति ।

अङ्गशब्दः प्रियसंबोधनवाचकः । हे प्रिया अश्विसरस्वतिसुत्रामेन्द्रा ये यज्वानो बर्हिषो यागस्य नमोवृति नमस्कारविनाशनं न जग्मुर्न प्रापुः । किंत्वत्यन्त श्रद्धालवोऽनुतिष्ठन्ति तेषामेषां यजतां हविर्विषयाणि भोजनानी- हे कृणुत । ग्रहणपात्राणामनेकत्वाद्वीप्सा । तत्रोपमानमुच्यते— कुविच्छन्दो



Sunday, May 30, 2021

कृष्णयजुर्वेदीयं तैत्तिरीयब्राह्मणम्। श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । 01



आनन्दाश्रमसंस्कृतग्रन्थावलिः।

ग्रन्थाङ्कः ३७

कृष्णयजुर्वेदीयं

तैत्तिरीयत्राह्मणम्।

श्रीमत्मायणाचार्यविरचितभाप्यसमेतम् ।

( नाऽऽदिमकाण्डं द्वितीयकाण्डस्य प्रथम-द्वितीय-तृतीय-चतुर्थ-पश्चम-

प्रपाठकाश्चेत्येतत्परिमितः प्रथमो भागः (१))

एतत्पुस्तकं

पुण्यपत्तननिवासिभिः ‘गोडबोले' इत्युपाद्वैः वे.

शा. रा. नारायणशास्त्रिभिः संशोधितम् ।

तच्च

ONA

LIBRARY

हरि नारायण आपटे

इत्यनेन

पुण्याख्यपत्तने

आनन्दाश्रममुद्रणालये

आयसाक्षरमुद्रयित्वा

प्रकाशितम् ।

HERSITA

शालिवाहनशकान्दाः १८२०

निस्ताव्याः १८९८

(अस्य मनऽधिकारा नशामनानमारेण लायनीताः )

मूल्यं रुपकपरकम् ।


कृष्णयजुर्वेदीयं तैत्तिरीयब्राह्मणम्। श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । 02

 ॐ तत्सद्ब्रह्मणे नमः।




कृष्णयजर्वेदीयं

तैत्तिरीयत्राह्मणम्

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् ।

आदिम काण्डम् ।

( तत्र प्रथमप्रपाठके प्रथमोऽनुवाकः )

वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।

यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ १॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ २॥

तत्कटाक्षेण तद्रूपं दधद्रुकमहीपतिः ॥

आदिशन्माधवाचार्य वेदार्थस्य प्रकाशने ॥ ३ ॥

ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात् ।

कृपालुर्माधवाचार्यों वेदार्थ वक्तुमुद्यतः ॥ ४ ॥

व्याख्याता सुखबोधाय तैत्तिरीयकसंहिता ।

तह्राह्मणं व्याकरिष्ये सुखेनार्थविवुद्धये ॥५॥

यद्यपि संहिताया 'इपे त्वोर्ने त्वा' इत्यादीनां दर्शपूर्णमासमन्त्राणामादौ

समाम्नातत्वात्तद्व्याख्यानरूपे ब्राह्मणे पौरोडाशिककाण्डमादौ पठितव्यं तथाऽपि

दर्शपूर्णमासयोराहवनीयाद्यग्निसापेक्षत्वादग्नीनां चाऽऽधानसाध्यत्वात्पथमका-

ण्डस्याऽऽद्ये प्रपाठकेऽग्न्याधानविधिरुच्यते । यद्यपि 'कृत्तिकास्वग्निमादधीत'

इत्ययमेवाऽऽधानब्राह्मणस्योपक्रमस्तथाऽपि संहितायां ग्रहकाण्डे शुक्रामन्थिग्र-

हप्रचारार्थानां मत्राणामनुक्तत्वेनात्र वक्तव्यत्वात्तेषां चाऽऽशासनीयफलपति-

पादकत्वेन मङ्गलरूपत्वादाद्येऽनुवाके तान्परिशिष्टान्मत्रानभिदधानोर्थान्मन-

लाचरणं संपादयति-

१ क. "दाद्यानु।


कृष्णयजुर्वेदीयं तैत्तिरीयब्राह्मणम्। श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । 03

 २




ब्रह्म संधत्तं तन्मे जिन्वतम् । क्षत्र संधत्तं तन्मे

जिन्वतम् । इष संधत्तं तां में जिन्वतम् । ऊर्ज

संधत्तं तां में जिन्वतम् । रयि संधत्तं तां मै 

जिन्वतम् । पुष्टि संधत्तं तां में जिन्वतम् । प्रजा संधत्तं

तां मैं जिन्वतम् । पशून्संधत्तं तान्मै जिन्वतम् ।

ब्रह्म संधत्तमित्यादिना । ब्रह्मशब्दो जगत्कारणे परमात्मनि मुख्यतया येदे प्रयुज्यते । 

तथा चैतरेयिणः स्वकीयोपनिपदि समामनन्ति–'प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म' इति । 

तैत्तिरीयाश्च–'सत्यं ज्ञानमनन्तं ब्रह्म' इति । 

वाजसनेयिनश्च–'विज्ञानमानन्दं ब्रह्म' इति । एवं सति ब्रह्मशब्दस्य तत्प्रतिपादकवर्णमात्रपरत्वेऽपि परब्रह्मणः सहसा बुद्धिस्थत्वादर्थान्मङ्गलाचरणं संपद्यते ।

तस्य ब्रह्मणः प्रतिपादकत्वेन वेदोऽपि ब्रह्मशब्दस्यार्थः । ततो ग्रन्थादों वेदपुरुषोऽप्यनुस्मृतो भवति । तादृशंवेदाध्ययनाध्यापनयोर्मुख्याधिकारसंपादिका ब्राह्मणजातिरपि ब्रह्मशब्दस्यार्थः। सोऽयमत्र मन्त्रे विवक्षितः । 

उत्तरवाक्यगतक्षत्रशब्दसाहचर्यात् । एवं सत्यत्र प्रतिपाद्यत्वेनाविवक्षितोऽपि परमात्मा सहसा प्रतीयमानो विघ्नपरिहारादिरूपं माङ्गल्यं संपादयति । यथा ब्राह्मणभोजनार्थमानीयमानस्य दधिकुम्भस्य दर्शनेन ग्रामान्तरे जिगमिपणां माङ्गल्यं तद्वत् । तस्मादाद्यानुवाके 'ब्रह्म संधत्तम्' इत्यादि मन्त्राणामाम्नानं युक्ततरम् ।

मन्त्रविनियोगं चाऽऽपस्तम्बो दर्शयति--"अपरेणोत्तरवेदि ग्रहावरत्नी वा संधत्तः-ब्रह्मसंधत्तं तन्मे जिन्वतं क्षत्र संधत्तं तन्मे जिन्वतमिप संधत्तं तां मे जिन्वतमूर्ज संधत्तं तां मे जिन्वतं रयि संधत्तं तां मे जिन्वतं पुष्टिरसंधत्तं तां मे जिन्वतं प्रजा संधत्तं तां मे जिन्वतं पशन्संधत्तं तान्मे जिन्वतम्" इति । 

अथाध्वर्युः शुक्रपात्रं प्रतिप्रस्थाता मन्धिपात्रं चाऽऽदायोत्तरवेदेः पश्चाद्भागेऽवस्थाय स्वहस्तस्थिते पात्रे परस्परसंसृष्टे कुरुतः । 

यद्वा स्वकीयावरत्नी परस्परसंसृष्टे फुरुतः । हे ग्रहौ युवां ब्रह्म यजमानसंवन्धिनी ब्राह्मणजातिं संधत्तं स्वोचितधर्मराहित्यं यथा न भवति तथा संपादयतम् । किंच मे तद्ब्रह्म मदीयां ब्राह्मणजाति जिन्वतं प्रीणयतम् । एवमग्रेऽपि सर्वत्र

१ क. ख. शस्य ।। २ ग. 'तिब्रह्म । ३ ग, आद्याध्वर्युः ।


कृष्णयजुर्वेदीयं तैत्तिरीयब्राह्मणम्। श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । 04




योज्यम् । क्षत्रं देशाधिपतिस्वामिगता क्षत्रियजातिः । इडित्यन्नम् । ऊर्धरा-

दिरसः । रयिर्धनम् । पुष्टिः शरीरपोषः। प्रजा पुत्रपौत्रादिः। पशवो गवादयः।

स्तुतोऽसि जनधाः । देवास्त्वां शुक्रपाः प्रणयन्तु (१)

कल्पः- "स्तुतोऽसि जनधा देवास्त्वा शुक्रपाः प्रणयन्त्विति शुक्रमध्व-

युरादत्ते'' इति । पूर्वोक्तग्रहसंधानात्मागेवेदमुपादानम् । पाठक्रमादर्थक्रमस्य

वलवत्त्वात् । हे शुक्रग्रह त्वमस्माभिः स्तुतोऽसि । हे जनधा जनानां धार-

यितः । शुक्रग्रहा ये देवाः शुक्रपात्रस्थस्य सोमस्य पातारस्ते त्वां प्रकर्षणाऽऽ-

हवनीयसमीपे नयन्तु ।

सुवीराः प्र॒जाः प्रजनयन्परीहि। शुक्रः शुक्रशोचिषा।

कल्पः- "सुवीराः प्रजाः प्रजनयन्परीहि शुक्रः शुक्रशोचिपा, इति दक्षि-

णेनाध्वर्युः प्रतिपद्यते” इति । पात्रं हस्ते गृहीत्वा हविर्धानस्य पूर्वद्वारि निर्ग-

त्योत्तरवेदेर्दक्षिणेन मार्गेण पूर्वस्यां दिश्यध्वर्युगच्छति । हे शुक्रग्रह शुक्रशो-

चिपा भास्वरदीप्त्या युक्तः सुवीराः शोभनवीरभृत्ययुक्ताः प्रजाः पुत्रपौत्रा-

दिकाः प्रजनयनुत्पादयनुत्तरवेदेः परितो गच्छ ।

स्तुतोऽसि जनधाः । देवास्त्वा मन्थिपाः प्रणयन्तु ।

कल्पः- "स्तुतोऽसि जनधा देवास्त्वा मन्थिपाः प्रणयन्तु, इति मन्थिन

प्रतिप्रस्थाता" इति । आदत्त इत्यनुवर्तते । हे मन्थिग्रह त्वमस्माभिः स्तुतोऽसि ।

हे जनधा जनानां धारयितर्मन्धिपात्रस्थस्य सोमस्य पातारो ये देवास्ते त्वां

प्रकर्पणाऽऽहवनीयसमीपे नयन्तु ।

सुप्रजाः प्रजाः प्रजनयन्प-रीहि । मन्थी मन्थिशोचिषा ।

कल्पः-"सुप्रजाः प्रजाः प्रजनयन्परीहि मन्थी मन्थिशोचिपा, इत्युत्त-

रेण प्रतिप्रस्थाता" इति । प्रतिपद्यत इत्यनुवर्तते । हे ग्रह त्वं मन्थी मन्थि-

नामको ग्रहो भूत्वा मन्थिशोचिषा मन्थ्याख्यस्य तव तेजसा युक्तः सुप्रजाः

शोभनापत्योपेताः प्रजा भ्रातृवन्ध्वादिकाः प्रजनयन्नुत्पादयन्परीहि, उत्तरवेदे-

रुत्तरभागे परीत्य पूर्वस्यां दिशि गच्छ ।


कृष्णयजुर्वेदीयं तैत्तिरीयब्राह्मणम्। श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । 05 & 06




संजग्मानौ दिव आ पृथिव्याऽऽयुः । 

संधत्तं तन्मे जिन्वतम् । प्राण संधत्तं तं में जिन्वतम् । अपान, संधत्तं तं मै जिन्वतम् (२)

व्यान५ संधत्तं तं में जिन्वतम्। चक्षुः संधत्तं तन्मे जिन्वतम् । 

श्रोत्र संधत्तं तन्में जिन्वतम् । 

मनः संधत्तं तन्मे जिन्वतम् । वाच संधत्तं तां में जिन्वतम् ।

कल्प:- "अग्रेणोत्तरवेदि ग्रहावरत्नी वा संधत्तः-संजग्मानौ दिव आ

पृथिव्याऽऽयुः संधत्तं तन्मे जिन्वतं प्राण संधत्तं तं मे जिन्वतमपान

संधत्तं तं मे जिन्वतं व्यान५ संधत्तं तं मे जिन्वतं चक्षुः संधत्तं तन्मे

जिन्वतं श्रोत्र५ संधत्तं तन्मे जिन्वतं मनः संधत्तं तन्मे जिन्वतं वाच

संधत्तं तां मे जिन्वतम् , इति । हे शुक्रामन्थिनौ युवां संजग्मानौ परस्परं

संगतावैकमत्यं गतावा दिवो द्युलोकसहितया पृथिव्या च संगतावस्मदीयमायुः

संधत्तं सम्यग्धारयतमभिवर्धयतमित्यर्थः । प्राण ऊर्ध्वगामी वायुः । अपा-

नोऽधोगामी वायुः । व्यानो मध्यवायुः । चक्षुःश्रोत्रे मनो वाक्चेत्येतानीन्द्रि-

याणि । एतेषु सर्वेषु पूर्ववद्याख्येयम् । ब्रह्म संधत्तमित्यत्रोत्तरवेदेः पश्चात्सं.

धानम् । इह तु पुरस्तादिति विशेषः ।

आयुः स्थ आयुर्मे धत्तम् । आयुर्यज्ञाय धत्तम् ।

आयुर्यज्ञप॑तये धत्तम् । प्राणः स्थः प्राणं में

धत्तम् । प्राणं यज्ञायं धत्तम् (३) प्राणं

यज्ञपतये धत्तम् । चक्षुः स्थश्चक्षुर्मे धत्तम् ।

चक्षुर्यज्ञायं धत्तम् । चक्षुर्यज्ञप॑तये धत्तम् ।

श्रोत्र स्थः श्रोत्रं मे धत्तम् । श्रोत्रं यज्ञाय

धत्तम् । श्रोत्रं यज्ञपतये धत्तम् । तौ देवौ 

शुक्रामन्थिनौ । कल्पयतं दैवीर्विशः। कल्प-

यतं मानुषीः (४) इपमूर्जमस्मासु धत्तम् ।

प्राणान्पशुधू । प्रजां मयि च यजमाने च ।




कल्प:- "अथैनावध्वर्युरभिमन्त्रयते आयुः स्थ आयुर्मे धत्तमायु-

यज्ञाय धत्तमायुर्यज्ञपतये धत्तं प्राणः स्थः प्राणं मे धत्तं प्राणं यज्ञाय धत्तं

प्राणं यज्ञपतये धत्तं चक्षुः स्थश्चक्षुर्मे धत्तं चक्षुर्यज्ञाय धत्तं चक्षुर्यज्ञपतये

धत्तं श्रोत्र स्थः श्रोत्रं मे धत्तं श्रोत्रं यज्ञाय धत्तं श्रोत्रं यज्ञपतये धत्तं तो देवी

शुक्रामन्थिनौ कल्पयतं दैवीविंशः कल्पयतं मानुपीरिपमूर्जमस्मासु धत्तं प्राणा-

न्पशुषु प्रजां मयि च यजमाने च” इति । हे शुक्रामन्थिनौ युवामायुः स्थ

आयुषः स्वामिनौ भवथः । अतो मे ममाध्वर्योरायुर्धत्तमभिवर्धयतम् । तथा यज्ञ-

स्याप्यायुर्धत्तम् । समाप्तिरेव यज्ञस्याऽऽयुः । तथा यज्ञपतये यजमानस्याप्यायु-

रभिवर्धयतम् । एवं प्राणादिपु योज्यम् । तौ युवां प्राणादिस्वामिनौ शुक्राम-

न्थिनौ ग्रहद्वयाधिपती देवौ दैवीविंशो देवसंवन्धिनीः प्रजाः कल्पयतमस्म-

दनुकुलाः कुरुतम् । तथा मनुष्यजातियुक्ताः प्रजाश्चास्मदनुकूलाः कुरुतम् ।

किंचेषं व्रीह्याद्यन्नमूर्ज क्षीरादिरसं चास्मासु स्थापयतम् । पशुपु गवादिपु चिर-

जीवनहेतून्प्राणान्स्थापयतम् । मय्यध्वयौँ चास्मिन्यजमाने च प्रजां पुत्रपौत्रा-

दिरूपां स्थापयतम् ।

निरस्तः शण्डः । निरस्तो मर्कः।

कल्पः- "अमोक्षितौ शकलौ वहिर्वेदि निरस्यतो निरस्तौ शण्डामौं सहा-

मुनेति निरस्तः शण्ड इति वाऽध्वयुद्वेष्यं मनसा ध्यायन्निरस्तो मर्क इति प्रति-

प्रस्थाता" इति । अत्र द्विवचनान्तो मन्त्रः शाखान्तरगतः। योऽयं शण्डाख्योऽ-

सुरपुरोहितः सोऽयं यज्ञभूमेदेवहिनिष्कासितः । यश्च मर्काख्योऽसुरपुरोहितः

सोऽपि वहिनिष्कासित इत्याभ्यां मन्त्राभ्यामुभावप्रोक्षितौ काष्ठशकलौ वहि-

निरस्यतः।

अपनुत्तौ शण्डामी सहामुना।

कल्पः---"तौ प्रोक्षिताभ्यां शकलाभ्यामपिधायाप्रोक्षिताभ्यामधस्तात्पांसू-

नपध्वंसयत । अपनुत्तौ शण्डामौ सहामुना” इति । अयं च मत्रोऽर्थक्रमानु-

सारेण शकलनिरसनमन्त्रात्प्रागेव द्रष्टव्यः । पात्रयोरधस्तनपांसुरूपेणावस्थितौ

शण्डामर्कावसुरावमुनाऽस्मद्वेष्येण सहापनुत्तौ निराकृतौ ।



कृष्णयजुर्वेदीयं तैत्तिरीयब्राह्मणम्। श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । 07 /08




शुक्रस्य॑ समिदसि । मन्थिनः समिसि ।

कल्प:- "मोक्षितावाधत्तः । शुक्रस्य समिदसीत्यध्वर्युमन्थिनः समिदसीति

प्रतिप्रस्थातत्यपोक्षितौ शकलो बहिनिरस्य प्रोक्षितो शकलावग्नावाधत्तःहे शकल त्वं शुक्रग्रहस्य समिन्धनहेतुरसि तथा हे शकल त्वं मन्थिग्रहस्य समि-न्धनहेतुरसि ।

स प्रथमः संकृतिविश्वकर्मा । स प्रथमो मित्रो

वरुणो अग्निः । स प्रथमो बृहस्पतिश्चिकि-

खान् । तस्मा इन्द्राय सुतमा होमि (५)

नयन्त्वपान्५ संधत्तं तं मे जिन्वतं प्राणं यज्ञाय धत्तं मानुपीरनि च ।

इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथम-प्रपाठके प्रथमोऽनुवाकः ॥ १ ॥

कल्पः- "शुक्रामन्थिनोः प्रतिनिगद्य होमः-स प्रथमः संकृतिविश्वकर्मा

स प्रथमो मित्रो वरुणो अग्निः स प्रथमो बृहस्पतिश्चिकित्वांस्तस्मा इन्द्राय

सुतमाजुहोमि" इति । इतरग्रहेषु होतृप्रयुक्तवपदकारेणैव होमः । न त्वध्वर्योर्म-

पाठोऽस्ति । इह त्वेनं मत्रं प्रतिनिगद्य होमः कर्तव्यः । स इन्द्रः प्रथमो

देवानां मध्ये मुख्यः। संकृतिः समीचीना कृतिर्जगद्रक्षणरूपव्यापारी यस्यासों

संकृतिः । विश्वानि कर्माणि जगद्रक्षणहेतुभूतान्यसुरयुद्धादीनि यस्यासौ विश्व-

कर्मा स एव मुख्य इन्द्रो मूर्तिविशेपान्धृत्वा मित्रादिरूपः संपन्नः । स एवेन्द्र-

श्चिकित्वान्सर्वज्ञानकुशलो बृहस्पतिरपि संपन्नः। तस्मै तादृशायेन्द्राय सुतमाभि-

पुतमिमं सोममा सर्वतो जुहोमि ।

अत्र विनियोगसंग्रहः-

अध्वर्युश्च प्रतिप्रस्थाता चाऽऽदाय ग्रहावुभौ ।

ब्रह्म शुक्रामन्थिपात्रं संधत्ते वेदिपश्चिमे ।।

स्तुतौ ग्रहावाददीत सुवीर्यातो दिशोर्द्वयोः ।

संजग्म वेदेः पुरतः संधत्तः पूर्ववद्हौ ।

आगमन्त्रयतेऽध्वर्युनिरस्तः शकलौ त्यजेत् ।

गांसुमपध्वस्य शुक्रामन्थिद्वयादुभौ ।।

प्रोक्षितौ शकलौ क्षिप्त्वा स प्रेति ग्रहयो तिः ।

स्तुतः स्तुतो निरस्तेति द्वयं द्वयमुदीरितम् ।

आद्यानुवाके कथिता मन्त्रा एते त्रयोदश ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-

तैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥


कृष्णयजुर्वेदीयं तैत्तिरीयब्राह्मणम्। श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । 08/09

 अथ द्वितीयोऽनुवाकः ।



प्रथमानुवाके सोमयागशेपभूताः शुक्रामन्थिग्रहप्रचारमन्त्रा उक्ताः

अथाऽऽधानप्रकरणमारभ्यते । तत्रास्मिन्ननुवाके कालविशेषं विधत्ते-


कृत्तिकास्वग्निमादधीत । एतहा अग्नेर्न-क्षत्रम्। यत्कृत्तिकाः। 

स्वामिवैनं देव-तायामाधाय । ब्रह्मवर्चसी भवति , इति ।


अग्निचयनकाण्डेऽम्बादुला नितत्निरित्याद्याः कृत्तिकास्ता यस्मिन्दिने चन्द्रेण

संयुज्यन्ते तस्मिन्दिने तासु कृत्तिकासु चन्द्रयोगं प्राप्तास्वग्न्याधानं कुर्यात् ।

यदेतत्कृत्तिकासंपातरूपं तदेतदग्निसंवन्धि नक्षत्रम् । अत एवान्यत्राऽऽन्नातम्-

“कृत्तिका नक्षत्रमग्निर्देवता" इति । अत आधेयस्याग्नेः कृत्तिकास्वाधाने सति

स्वरूपभूतायामेव देवतायामाधानं कृतं भवति । अग्नेाह्मणाभिमानित्वात्तत्प्र-

सादेनाधीतश्रुताध्ययनरूपब्रह्मवर्चससंपन्नो भवति ।

प्रकारान्तरेण प्रशंसति-

मुखं वा एतनक्षत्राणाम् । यत्कृत्तिकाः । यःकृत्तिकास्वग्निमाधत्ते । मुख्य एव भवति , इति ।

कृत्तिका इति यत्तदेत नक्षत्राणां मध्ये मुखं प्रथमं नक्षत्रम् । अत एव

नक्षत्रप्रतिपादकेऽप्यनुवाक आदौ पठ्यते “कृत्तिका नक्षत्रमग्निर्देवता" इत्ये-

कत्र । “अग्नेः कृत्तिकाः शुक्रं परस्तात्" इत्यन्यत्र । “अग्निर्नः पातु कृत्तिकाः।

नक्षत्रं देवमिन्द्रियम्' इत्यन्यत्र । तदेतत्सर्वे मन्त्रानुवाकेविष्टिविधायकेऽप्य-

नुवाक एतदीयैवेष्टिरादावाम्नाता “अग्निर्वा अकामयत । अन्नादो देवाना

स्यामिति । 



स एतमग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरवपत्' इति ।
अतो मुखभूतासु कृत्तिकास्वादधानः पुमान्सर्वेषु स्वयं मुख्यो भवति ।
अस्मिन्पक्षे गुणमुक्त्वा दोपमपि कंचिदर्शयति-

अथो खलु (१) अग्निनक्षत्रमित्यपचायन्ति । 
गृहान्ह दाहुको भवति।

पूर्वोक्तगुणवैलक्षण्यद्योतनायाथोशब्दः । अभिज्ञाः खल्वग्निदेवताकमिदं
नक्षत्रमित्येवं निन्दन्ति । तस्मिन्नक्षत्र आदधानस्य यजमानस्य गृहान्सोऽ.
ग्निर्दाहुको दहनशीलो भवति ।

अथ निर्दोष नक्षत्रं विधत्ते-

प्रजापती रोहिण्यामग्निमसृजत । तं देवा रोहि-
ण्यामादधत । ततो वै ते सर्वात्रोहानरोहन् ।
तद्रौहिण्यै रोहिणित्वम् । यो रोहिण्यामग्निमां-
धत्ते । ऋनोत्येव । सर्वाब्रोहाब्रोहति |

रुह्यन्ते प्राप्यन्त इति रोहाः कामास्ते च यस्यां रुह्यन्ते सा रोहिणी।
ऋनोत्येव समृद्धो भवत्येव । समृद्धिरेव सर्वानित्यनेन विशदीकृता ।
नक्षत्रान्तरं विधत्ते-
देवा वै भद्राः सन्तोऽग्निमाधिसन्त (२)
तेषामनाहितोऽग्निरासीत् । अर्थेभ्यो वामं वस्व-
पाक्रामत् । ते पुनर्वस्वोरादधत । ततो वै ता-
न्वामं वसूपावर्तत । यः पुरा भद्रः सन्पापी-
यान्त्स्यात् । स पुनर्वस्खोरग्निमादधीत । पुन-
रेवैनं वामं वसूपावर्तते । भद्रो भवति , इति ।



कृष्णयजुर्वेदीयं तैत्तिरीयब्राह्मणम्। श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । 10



भद्रा धनसंपन्ना आधित्सन्ताऽऽधातुमैच्छन् । तेषां धनगर्वेण श्रद्धाराहि-

त्यादग्निः सम्यगाहितो नाऽऽसीत् । अनन्तरं तेन विकलानुष्ठानेन तदीयं

वामं वननीयं मणिमुक्तादिकं धनं तेभ्योऽपगतम् । ततस्ते देवाः श्रद्धालवो

भूत्वा पुनर्वसू नक्षत्रावयवौ तारकाविशेषौ यस्मिन्दिने चन्द्रेण युक्तौ तस्मिन्दि-

नेऽग्निं सम्यगाधाय तद्धनं पुनर्लब्धवन्तः । ततोऽप्यन्योऽपि पूर्वं धनिकः सन्के-

नापि निमित्तेन पश्चात्पापीयान्स्यादत्यन्तनिर्धनो भवेत् । स पुनर्वस्वोरग्निमां-

धाय पूर्ववद्धनं प्राप्य सर्वेषां मध्ये भद्रः पूज्यो भवति । पुनरपि वसु लभ्यते

ययोस्तौ पुनर्वसू ।

अथ नक्षत्रान्तरं विधत्ते-

यः कामयेत दानकामा मे प्रजाः स्युरिति।

स पूर्वयोः फल्गुन्योराग्नमादधीत (३) ।

अर्यम्णो वा एतन्त्रक्षेत्रम् । यत्पूर्व

फल्गुनी। अयमेति तमाहुर्यों ददाति ।

दानकामा अस्मै प्रजा भवन्ति, इति ।


सर्वाः प्रजा मे मह्यं धनं दातुमिच्छन्त्विति यो यजमानः कामयेत सोऽयं

पूर्वयोः फल्गुन्योराधाय प्रजाभिर्दत्तं धनं लभते । एतच्च नक्षत्रमर्यमदेवता-

कम् । “फल्गुनी नक्षत्रमर्यमा देवता" इत्यन्यत्राऽऽम्नानात् । अरीन्यमयति

धनदानेन वशी करोतीत्यर्यमा धनस्य दाता ।

नक्षत्रान्तरं विधत्ते-

यः कामयेत अगी स्यामिति । स उत्तरयोः

फल्गुन्योरग्निमादधीत । भर्गस्य वा एतन्ना-

त्रम् । यदुत्तरे फल्गुनी । भग्यैव भवति, इति ।

भगी, ऐश्वर्यादिगुणषट्ककामः । तथा च स्मर्यते-

"ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः।

ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा" इति ।

------------------------------------------------------------------

कृष्णयजुर्वेदीयं तैत्तिरीयब्राह्मणम्। श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । 11



तत्काम उत्तरयोः फल्गुन्योराधाय तत्फलं प्रामोति । उत्तरयोः फल्गुन्यो-

भगदेवताकत्वमन्यत्राऽऽम्नातम् । “फल्गुनी नक्षत्रं भगो देवता" इति ।

अथ नक्षत्रान्तरं विधत्ते-

कालकञ्जा वै नामामुरा आसन् (४)। ते

सुवर्गीय लोकायाग्निमचिन्वन्त । पुरुष इष्ट-

कामुपादधात्पुरुष इष्टकाम् । स इन्द्रो ब्राह्मणो

ब्रुवाण इष्टकामुपाधत्त । एषा में चित्रा नामेति ।

ते सुवर्गलोकमाप्रारोहन् । स इन्द्र इष्टकामा-

हत् । तेऽवाकीर्यन्त । येऽवाकीर्यन्त। त ऊर्णावा-

योऽभवन् । हावुदपतताम् (५)। तौ दिव्यौ श्वाना-

वभवताम्। यो भ्रातृव्यवान्त्स्यात् । स चित्रायो

मग्निमादधीत । अवकीय भ्रातृव्यान् ।

ओजो बलमिन्द्रियं वीर्थमात्मन्यत्ते ।


कालकञ्जशब्दोऽसुरविशेषनामधेयम् । ते चासुरा यदा स्वार्थमग्निं चेतुं

पारभन्त तदानीमेकैकोऽसुर एकैकामिष्टकामुपादधात् । तानसुराजेनुकाम

इन्द्रो वेषान्तरं कृत्वा ब्राह्मणोऽहमिति वाणस्तन्मध्ये प्रविश्य कांचिदिष्टका-

मुपाधत्त । तदानीं मनस्येपा मे मदीयेष्टका चित्रेति नामधेयेन युक्ताऽ-

पेक्षितविचित्रफलप्रदातृत्वादित्यमन्यत । तेन चाग्निचयनेनासुराः स्वर्गमा-

रोढुं प्रारभन्त । तदानीं स इन्द्रः स्वकीयां तामिष्टकां चितेरुद्धृतवान् । चिति-

भ्रंशेन मार्गमध्य एवासुराः प्रभ्रष्टाः। ते चोर्णनाभिनामका लताः कीटा

अभवन् । तेन कीटेन संसृष्टं तन्तुजालमूर्णशब्देनोच्यते । ऊो तस्मिन्नणे

सूत्रजाले स्थिता अभयो भीतिरहिता आसते । ते ह्याधारयोः काष्ठयोर्मध्य

आकाशे तन्तुजालं सृष्ट्वा तत्र निर्भयास्तिष्ठन्तीत्येतत्सर्व लोकप्रसिद्धम् ।

ऊर्णावभय इति पदद्वयं मिलित्वैकं नामधेयम् । अपांनपादिति पदवयं

यथैकस्याग्नेनीम तद्वत् । तेषामसुराणां मध्ये द्वावसुरी श्रद्धातिशयात्स्वर्ग

१ ग. तनुनपादिति ।


कृष्णयजुर्वेदीयं तैत्तिरीयब्राह्मणम्। श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । 12



प्राप्य चितिभ्रंशात्तत्र देवलोके श्वानावभूताम् । यस्मादत्रेन्द्रश्चित्रेष्टकापातेन

तानसुरान्विनाशितवान् । तस्माद्यजमानश्चित्रानक्षत्रेऽग्निमाधाय भ्रातृव्या.

विनाश्य स्वस्मिन्नोजआदिकं स्थापयति । ओजो वलहेतुरष्टमो धातुः । बलं

प्रसिद्धम् । इन्द्रियं चक्षुरादिकम् । वीर्यं तदीयव्यवहारपाटवम् ।

इत्थं नक्षत्राणि विधायाधिकारिविशेषादृतून्विधत्ते-


वसन्ता ब्राह्मणोऽग्निमादधीत । वसन्तो वै ब्राह्मणस्य॒तुः । 

स्व एवैनमृतावाधाय । ब्रह्म-

वर्चसी अवति । मुखं वा एततूनाम् ( ६ )।

यसन्तः । यो वसन्ताऽग्निमांधत्ते । मुख्य एव

भवति । अथो योनिमन्तमेवैनं प्रजातमाधत्ते ।

ग्रीष्मे राजन्य आदधीत । ग्रीष्मो वै राजन्य-

स्य ः।स्व एवैनमृतावाधाय। इन्द्रियावी अवति।

शरद वैश्य आदधीत । शरदै वैश्य॑स्य॒तुः(७)।

स्व एवैनमृतावाधार्य । पशुमान्भवति , इति ।

वसन्तो वसन्तर्तुस्तस्य च ब्राह्मणस्य च प्राथम्यसाम्यात्स्वस्वामिभावा-

त्स्वकीयऋतावादधानस्य ब्राह्मणस्य स्वोचितं ब्रह्मवर्चसमेव फलम् । किंच

'मधुश्च माधवश्च वासन्तिकातू' इत्याम्नानान्मुखत्वं प्राथम्यं वसन्तस्याप्यवग-

न्तव्यम् । अपि च यथा स्त्रीणामृतुविशेषे प्रवृत्तः पुरुषः प्रजननसमर्थों भवति

तथर्तुविशेषे योनिमन्तं प्रजननसामर्थ्यवन्तं प्रादुर्भूतं प्रजातं चाग्निमाधत्ते । एवं

ग्रीष्मशरद्वाक्ययोरपि व्याख्येयम् ।

पूर्व काम्य आधाने पूर्वोत्तरफल्गुनीनक्षत्रद्वयं विहितम् । इदानीं तु नित्य

आधाने नक्षत्रमेकं निषिध्येतरद्विधत्ते--

न पूर्वयोः फल्गुन्योरग्निमादधीत । एषा वै

जघन्या रात्रिः संवत्सरस्य । यत्पूर्वे फल्गुनी।


कृष्णयजुर्वेदीयं तैत्तिरीयब्राह्मणम्। श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । 13




पृष्टित एव संवत्सरस्यानिमाधाय । पापीया-

म्भवति । उत्तरयोरादधीत । एषा वै प्रथमा

रात्रिः संवत्सरस्य । यदुत्तरे फल्गुनी । मुखत

एव संवत्सरस्याग्निमाधाय।वसीयान्भवति, इति ।

फाल्गुनमासे येयं पूर्णिमा तत्र प्राप्तं यत्पूर्वफल्गुनीनक्षत्रं तयुक्ता रात्रिः

पूर्वसंवत्सरस्य समाप्तिस्थानीया । अतस्तत्राऽऽदधानः संवत्सरस्य पृष्टितः

पृष्ठभागेऽनुष्टानादरिद्रो भवति । उत्तरफल्गुनीनक्षत्रे भाविसंवत्सरादित्वात्त-

त्राऽऽदधानः संवत्सरमारम्भ एवाऽऽधायात्यन्तधनिको भवति ।

पक्षान्तरं विधत्ते-

अथो खल। यदेवैन यज्ञ उपनमेत् ।

अथाऽऽदधीत । सैवास्यधिः (८), इति ।


खत्वैधित्सन्त फल्गुंन्योरग्निमादेवीतासन्नपततामृतूनां वैश्य॑स्यतुरुत्तरे

फल्गुनी षट्

इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्र-

पाठके द्वितीयोऽनुवाकः ॥ २ ॥

अन्येऽभिज्ञा एवमाहुः खलु यस्मिन्नेव काल एनं पुरुषं सोमयज्ञः प्राप्नुया-

सोमयागं करिष्याम्यहमिति बुद्धिरुदियात्तदानीमेवाऽऽदधीत । न तु नक्षत्रादिकं

परीक्षितव्यम् । सैव सोमयागबुद्धिरेवास्य पुरुषस्य नक्षत्रादिकृत्स्नविहितकाल-

समृद्धिः। अत एव सूत्रकारेणोक्तम्- “सोमेन यक्ष्यमाणो नर्तुं सूक्षैन्न नक्षत्रम्"

इति । अत्र मीमांसा । तृतीयाध्यायस्य षष्ठपादे चिन्तितम्-

"आधानं किं प्रकृत्यर्थं वह्निमात्रेण वा युतम् ।

संस्कृताग्निनाड्यै तत्पर्णवत्प्रकृतौ स्थितम् ॥

लौकिकाकारमात्रत्वे विफलत्वात्क्रती युतिः।

पर्णस्याऽऽहवनीयादौ शास्त्रीयेऽस्तु स्वतत्रता" ॥



कृष्णयजुर्वेदीयं तैत्तिरीयब्राह्मणम्। श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । 14/15


अनारभ्याधीतं पर्णमयीत्वं यथा जुहूप्रनाड्या प्रकृतौ निविष्टं तथैवाग्निप्र-

नाड्या तत्संस्काररूपमाधानं प्रकृतौ निविशत इति चेत् । मैवम् । वैषम्यात् ।

द्विविधो हि जुह्वा आकारः । लौकिकः शास्त्रीयश्च । अरनिमात्रदैर्घ्यहंसमुख-

स्वावाग्विलत्वादिरूपो दृश्यमानो लौकिकः । अपूर्वीयत्वाकारस्तु शास्त्रीयः ।

तयोरपूर्वीयत्वं क्रतुप्रवेशमन्तरेण नास्ति । तच्च यदि लौकिकाकारमात्रे पर्यव-

स्येत्तदा पर्णमयीत्वं विफलं भवेत् । काष्टान्तरेणापि तदाकारस्य सुसंपादक-

त्वात् । अतोऽपूर्वीयत्वाय पर्णता क्रतौ प्रविष्टा । आहवनीयादीनां त्वेक एव

शास्त्रीयाकारः । स च विधिवलादाधानेनैव जन्यते नान्यथा । तस्मादाधा-

नस्य क्रतुप्रवेशं विनैव शास्त्रीयाहवनीयाद्याकारसंपादनसमर्थत्वादग्निमात्रेण

तत्संयुज्यते । तथा सति पर्णवैषम्यात्प्रकृतावप्रविश्यानीनुत्पाद्य क्रतुवत्स्वात-

येणावतिष्ठते । ततो लौकिकोपायसंपादितसुवर्णव्रीह्यादिवदाधानसंपादितानां

स्वतत्राणामेवाऽऽवनीयाद्यनीनां पश्चाद्वाक्यैः क्रतुषु विनियोगोऽस्तु ।

तत्रैवान्यचिन्तितम्-

"आधानं पवमानादेरिष्टेरॉ न वा भवेत् ।

अग्नीनामिष्टिशेपत्वात्तद्वाराऽस्य तदङ्गता ॥

आनारभ्य विधानात्तु नाङ्गं कस्यचिदाहितिः ।

अग्न्यर्थत्वात्तत्समेष्टिरग्नयस्त्वग्निहोत्रगाः" ॥

इदमाम्नायते—'अग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेदग्नये पावका-

याग्नये शुचये" इति । “ वसन्ता ब्राह्मणोऽग्निमादधीत" इति च। तत्राऽऽ-

धानं पवमानादीनामिष्टीनामङ्गं भवेत् । कुतः । दर्शपूर्णमासविकृतिषु पवमा-

नादीष्टिषु चोदकप्राप्तानामाहवनीयाद्यग्नीनामिष्ट्यङ्गत्वे सत्यग्निद्वारा तत्संस्का-

ररूपस्याऽऽधानस्यापि तदङ्गताया अनिवार्यत्वादिति चेत् । मैवम् । न ह्येत-

दाधानं कस्यचित्क्रतोः प्रकरणे पठितं किंत्वनारभ्याधीतम् । अतो न कस्या-

प्यङ्गम् । किंत्वाधानवदिष्टीनामपि अग्निसंस्कारार्थत्वात्परस्परं नास्त्यङ्गाङ्गि-

भावशङ्का । ननु पवमानेष्ट्यङ्गत्वाभावेऽग्निसंस्कारवैयादग्निद्वारा तदङ्गत्वं

गुक्तमिति चेत् । न । संस्कृतानामनीनामग्निहोत्राद्युत्तरक्रतुपु तत्तद्वाक्यैर्विनियो-

गावगमात् । तस्मान्नाऽऽधानमङ्गम् ।

द्वितीयाध्यायस्य तृतीयपादे चिन्तितम् ।

"वसन्ते विप्र आदध्यात्तत्रैवोपनयीत तम् ।

अनुवादः प्रापणं वाऽनुवादः कालसिद्धये ॥

१ ख. 'खत्वमबिल । २ क. 'स्याप्येतदङ्ग ।





अन्तरेणाग्निविद्याभ्यां कर्मानुष्ठित्यसंभवात् ।
कृप्ते आधानोपनीती प्राप्ता विप्रादयस्ततः ॥
लौकिकाग्नेः पुस्तकाच तत्सिद्धेर्नास्ति कल्पनम् ।
कालविप्रादिसंयुक्तमतोऽप्राप्तं विधीयते" ॥
“वसन्ते ब्राह्मणोऽग्निमादधीत । ग्रीष्मे राज्यन्यः। शरदि वैश्यः" इति
श्रूयते । “घसन्ते ब्राह्मणमुपनयीत ग्रीष्मे राजन्यं शरदि वैश्यम्" इति च ।
तत्र वसन्तादिकालविशेषं विधातुं ब्राह्मणादयोऽनूद्यन्ते । न च तेषां प्राप्त्य-
भावः । क्रत्वनुष्ठानान्यथानुपपत्त्या क्लृप्तत्वात् । न ह्याहुत्याधारभूतमग्निमनुष्ठा-
नप्रकारज्ञापिकां विद्यां च विना कर्मानुष्टानं संभवति । अग्निश्च नाऽऽधानमः
न्तरेणास्तीति ब्राह्मणादिकर्तृकमाधानं कल्पयति । विद्या चोपनयनपूर्वकाध्य-
यनमन्तरेण न संभवतीति ब्राह्मणाधुपनयनं कल्पयतीति तत्प्राप्तिरिति चेत् ।
मैवम् । लौकिकाग्नौ होतुं पुस्तकपाटेनाधिगन्तुं च शक्यत्वेनाऽऽधानोपनयन-
योरकल्पने ब्राह्मणादीनामप्राप्तेः। तस्माद्वसन्तादिकालविशिष्टे ब्राह्मणादिक-
र्तृके आधानोपनयने अत्र विधीयते ।
षष्टाध्यायस्य प्रथमपादे चिन्तितम्-
"पुंसोरेकस्य वाऽऽधानं वसानावित्यतो द्वयोः।
एष क्षौमविधिद्वित्वं दंपत्योरेकता ततः" ।
आधाने श्रूयते- 'क्षौमे वसानावाग्निमादधीयाताम्' इति । तत्र वसानाविति
पुंलिङ्गद्विवचनादुभयोः पुंसोराधानेऽधिकार इति चेत् । मैवम् । क्षौमस्याप्राप्तस्य
विधेयतया पुंद्वित्वस्यापि विधाने वाक्यभेदान्न तद्विधीयते । किंतु दंपत्योः
सहाधिकारेण प्राप्तं द्वित्वमनद्यते । पतिश्च पत्नी चेति विगृह्य पतिशब्द-
स्यैकशेषात्पुंलिङ्गद्विवचनमविरुद्धम् । तस्मादाधानेऽधिकारिणः पुंस एकत्वमेव ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीय-
ब्राह्मणभाष्ये प्रथमकाण्डे प्रथमप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥

१ क. सन्ता ब्राम्हण आदधीत। ग्रीष्मे राजन्य आदीत । शरदि वैश्य आदधीत"।
नीयमिति ।


Taitriya Bharhmana Bhashyam - II Kandam

सभाष्ये तैत्तिरीयब्राह्मणे द्वितीयं काण्डम् | ( तत्र प्रथमप्रपाठके प्रथमोऽनुवाकः ) यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं ...